________________ रसभावनिरूपणपरिच्छेदः / [139 बीभत्समाह अहृद्यदर्शनादिविभावा अङ्गसंकोचाद्यनुभावा अपस्मारादिव्यभिचारिणी जुगुप्सा बीभत्सः / [सू० 11] यथा—उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोफभूयांसि मांसा न्यसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा / आत्तस्नाय्वन्त्रनेत्रात् प्रकटितदशनः प्रेतरङ्कः करङ्कादङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति // 18 // [मालतीमाधव अं०५, श्लो०१६ ] अद्भुतमाह -- दिव्यदर्शनादिविभावो नयनविस्ताराद्यनुभावो हर्षादिव्यभिचारी विस्म- 10 योऽद्भुतः / [सू० 12 ] यथा-कृष्णेनाम्ब गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया . सत्यं कृष्ण क एवमाह मुशली मिथ्याम्ब पश्याननम् / व्यादेहीति विकासितेऽथ वदने माता समस्तं जगद् - दृष्ट्वा यस्य जगाम विस्मयपदं पायात् स वः केशवः // 19 // 15 [औचित्यविचारचर्चायाम्'] शान्तमाह-- वैराग्यादिविभावो यमाद्यनुभावो धृत्यादिव्यभिचारी शमः शान्तः / [सू० 13] यथा-गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य / किं तैर्भाव्यं मम सुदिवसैर्थेषु ते निर्विशङ्काः कण्डूयन्ते जरठहरिणाः शृङ्गकण्डु विनेतुम् // 20 // [वैराग्यशतक श्लो० 18 ] तदेवं परस्परविविक्ता नवापि रसाः / ] 1. सुभाषितावली, श्लो. 4. 30