________________ 138] काव्यशिक्षा इत्यादि रतिप्रलापेषु / रौद्रमाह दारापहारादिविभावो नयनरागाद्यनुभाव औग्र्यादिव्यभिचारी क्रोधो रौद्रः। [सू० 8] 5 यथा-चञ्चद्भुजभ्रमितचण्डगदाभिघात संचूर्णितोरुयुगलस्य सुयोधनस्य / स्त्यानावनघनशोणितशोणपाणिरुत्तंसयिष्यति कचास्तव देवि ! भीमः // 15 // वेणीसंहार अं० 1, श्लो० 21] 10 वीरमाह नयादिविभावः स्थैर्याद्यनुभावो धृत्यादिव्यभिचार्युत्साहो धर्मदानयुद्धभेदो वीरः / [ सू० 12 ] यथा—अजित्वा सार्णवामुर्वीमनिष्ट्वा विवि'[धैर्मखैः / अदत्वा चार्थमर्थिभ्यो भवेयं पार्थिवः कथम् // 16 // 15 [काव्यादर्श परि०२, श्लो०२८४ ] तत्र धर्मवीरो नागानन्दे जीमूतवाहनस्य / दानवीरः परशुरामबलिप्रभृतीनाम् / युद्धवीरो वीरचरिते रामस्य / भयानकमाह विकृतस्वरश्रवणादिविभावं करकम्पाद्यनुभावं शङ्कादिव्यभिचारि भयं 5 भयानकः / [सू० 10 ] यथा--प्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद् भूयसा पूर्वकायम् / शष्पैरीवलीद्वैः श्रमविततमुखभ्रंशिभिः कीर्णवा / पश्योदग्रप्लुतत्वाद् वियति बहुतरं स्तोकमुा प्रयाति // 17 // [अभिज्ञानशाकुन्तल अं०१, श्लो०७ ] 1. अतः परं ग्रन्थस्य पत्रे नष्टे, काव्यानुशासनादुद्धृतः सन्दर्भः /