________________ 100 काव्यशिक्षा निधिः खलरिका मूलधनं कुण्डं हिमाचलः / समस्या जलदारामौ कार्मणं कुलमन्दिरम् // 161 // मानसं नगरं कल्पः प्रतिष्ठानं सरोरुहम् / मधुर्णीष्मश्च वर्षाश्च शरद्धेमन्तशीतकः // 162 // परशुर्दववह्निश्च भारतीहस्तपुस्तकः / पद्मिनी चन्द्रिका चूतो नेत्राञ्जनं सुभाजनम् // 163 // . आदर्शः कङ्कणं प्राची विन्ध्यशैलः प्रभोदयः / क्षेत्रं कन्दः खनिर्मूलमटवी शत्रमालयः // 164 // दीपो जलनिधौ द्वीपो मरौ शाखी हिमे शिखी / वृषभः स्यन्दनः पुष्पं चार्गला द्वारकुञ्चिका // 165 // हस्तावलम्बनं मार्गो दिवामुखं प्रभोदयः / क्रीडाभूः क्रीडोपवनं रयो नद्यास्तमस्विनी // 166 // __ व्याख्या- एभिः पदैरर्थबीजमुत्पद्यते, तद्यथापद्मम्-सरलाङ्गुलिदलपटलं नखमणिकरकेसरं नरसुरालिम् / त्रिभुवनकमलानिलयं जिनपतिपदपङ्कजं नमत // 167 / / अथवा -गुणभृङ्गावलीपद्मम् / सरो यथा—अतिशयकमलमनोज्ञं कीर्तिजलं सकललोकमहनीयम् / ___ भव्यजनकुमुदनिकरं नमामि नाभेयचरणसरः // 168 // पयोधिः–गाम्भीर्यरत्नपाथोधिः / अथवा मर्यादातटिनीश्वरः / 30 रोहणाद्रिः-गुणमाणिक्यरोहणः / सूर्यः–तमस्तोमदिवानाथः / चन्द्रः नेत्रकैरविणीचन्द्रः / नभस्तलम् –यशस्तारामरुत्पथः / / गङ्गा-पापपङ्कापनोदाय साक्षाद् गङ्गेव वीक्ष्यते / 35 पृथ्वी-अतिशयगिरिपृथ्वी राजते भारतीयम् / . भण्डारमन्दिरम् -औचित्यद्रव्यभण्डारः / 1 पुनरुक्तिरियं प्रागुक्तत्वात् / व्याख्यायामत्र प्रभोल्लास इति व्याख्यातः / [- सं०]