SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ बीजव्यावर्णनपरिच्छेदः / निधिः-कीर्तिविस्फूर्तिसेवधिः / कीर्तिसद्रत्नसेवधिः / खलूरी-इयं विराजते रामा काममल्लखलरिका / मूलधनम्-वाल्मीकिशास्त्रं सकलकविजनानां मूलधनम् / कुण्डम्-विशदयशःपयसां कुण्डम् / हिमाचल:-कीर्तिगङ्गाहिमाचलः / समस्या-पुण्यानां समस्या, ऋचां वा / आशीर्वचसां वा / जलदः-भवसंतापतप्तानां चन्द्रमौलिर्धनाघनः / आरामः-आरामः कीर्त्तिवल्लीनाम् / कार्मणम्-अमूलमन्त्रतन्त्रं च कार्मणं निर्वृतिश्रियः / कुलमन्दिरम्-सत्कीर्तेः कुलमन्दिरम् / मानसम्-मानसं गुणहंसानाम् / नगरम्--नगरं गुणपौराणाम् / कल्पः-परलोकगतौ कल्पः / प्रतिष्ठानम्-धर्मपोतप्रतिष्ठानम् / सरोरुहम्-पुण्यभृङ्गसरोरुहम् / मधुः-पुण्यभूतोदये मधुः / / ग्रीष्मः-पापपङ्कहतौ ग्रीष्मः / कल्याणवल्लरीकन्दसमुद्भेदतपात्ययः / वर्षाः-भक्तिकन्दलिनीमेघः / ' शरत्-पापपङ्कं तनू कुर्वन् जिनेशः शरदायते / हेमन्तः-मोहपङ्कजिनीहिमम् / शिशिरः-कर्मेभदन्तनिर्भेदी / परशुः—योगः सर्वविपदल्लीविताने परशुः शितः / वनवह्निः-संसारदुदवानलः / भारतीहस्तपुस्तकः-गुरुर्विजयतां वन्द्यो भारतीहस्तपुस्तकः / पद्मिनी-भक्तिश्रीपद्मिनीसूरः / चन्द्रिका-भवतां (? भविनां) भवतापौघहरी यस्यास्ति देशना / चूतः सुकृतारामचूतस्त्वम् / अजनम्-सुदृशाममृताञ्जनम् / [सु]भाजनम्-पुण्यमुक्तासुभाजनम् / 1. प्रतौ त्वियं व्याख्या हेमन्तव्याख्यानन्तरं लिखिता / 90
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy