________________ - बीजव्यावर्णनपरिच्छेदः / कालनेमि-हयग्रीव-शकटारिष्ट-कैटभाः / कंस-केशि-मुराः साल्व-मैन्द-द्विविद-राहवः // 47 // हिरण्यकशिपुर्बाणः कालियो नरको बलिः / शिशुपालश्चास्य वध्या वैनतेयस्तु वाहनम् // 48 // [अभिधानचिन्तामणि, 219-221] - सूत्रम्- राधा-लक्ष्मीपतिः पायात् सत्याधिष्ठितमानसः / / रुक्मिणी-गोपिका-स्वान्तसरोरुहदिवाकरः // 49 // दशावतारसुभग इत्यादि, यथा - श्रेयो दशावतारास्ते जीयासुरपरे जिनाः / चित्रं नमन्नृसिंहाय हिरण्यकशिपुच्छिदे // 50 // समुद्रे शयनं यस्य यस्य माता च देवकी / वसुदेवः पिता यस्य स पातु गरुडध्वजः // 51 // बाणासुरस्फुरत्कोपमहावह्निघनाघनः / / चाणूरगर्वतटिनीपतिकुम्भोद्भवायितः // 52 // इत्यादि स्वयमभ्यूह्यम् / अथ लक्ष्मीः - चपला कमलोत्पन्ना निधानेषु कृतस्थितिः / चतुर्दशमहारत्नप्रथमा कमला सुरी // 53 // वीतराग इव बौ(बु)द्धो यथा भग्नं भवबलं येन जितं कन्दर्पशासनम् / निर्वाणपदमासीनं तं बुद्धं प्रणिदध्महे // 54 // समन्तभद्रदनुसुतदेवदत्तादयो बु(बौ)द्धाः / रक्ताम्बरधराः शून्यवादिनस्तस्य भिक्षवः / / तुम्बपात्राः क्षणिकत्वनिष्ठा मुण्डितमौलयः // 55 //