SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ 88] काव्यशिक्षा बालविद्येव वैदग्ध्यस्य, कौमुदीव कान्तेः, धृतिरिव धैर्यस्य, गुरुशालेव गौरवस्य, बीजभूमिरिव विनयस्य, गोष्ठीव गुणानाम् , मनस्वितेव महानुभावतायाः, तृप्तिरिव तारुण्यस्य / [हर्षचरिते प्रथमोच्छ्वासे / ] 5 वीतरागदर्शने सति–लुण्ठितेव मनोरथैः, आकृष्टेव कुतूहलेन, प्रत्युद्गतेवो कलिकाभिः, आलिङ्गितेवोत्कण्ठ या, अन्तःप्रवेशितेव] हृदयेन, स्नपितेवानन्दाश्रुभिः, विलुसेव स्मितेन, व(वा)जीतेवोच्छ्वसितैः, आच्छादितेव चक्षुषा, अभ्यर्चितेव वदनपुण्डरीकेण, सखीकृतेवाशया। [ हर्षचरिते प्रथमोच्छ्वासे / ] 10 भवानीपतिः' इति स्तुतौ न कार्यः / यतो भवस्य भार्या भवानी, पति शब्दो योजितः पत्यन्तरे प्रतीतिं जनयति / एवं 'मृडानीपतिः' 'अम्बिकापतिः' इति विरुद्धां घियमुत्पादयति / सती शिवा महादेवी भैरवी सर्वमङ्गला / इति गौर्या नामपदानि श्लिष्टानि / महासेनो महातेतः ‘कुमारः' सुशब्दपूर्वः श्लिष्टो भवति, यथा-प्रभवति तारको15 च्छेदनाय सुकुमारे रश्मिजाले / तारकारिरपि श्लिष्टः / इति हरप्रक्रमः / अथ ब्रह्मा हंसगो वेदगर्भश्च रजोगुणसमन्वितः / विश्वरेताः सुरज्येष्ठो लोकेशो नाभिपद्मभूः // 43 // अयं बीजश्लोकः / 20 व्याख्यास्य हंसासनसमासीनो वेदविद्यापवित्रितः / जगन्निर्माणतन्निष्ठः सुरज्येष्ठो जयत्यसौ // 44 // परमेष्ठी ध्रुवः भवान्तकृत् सुरज्येष्ठ इति नामानि श्लिष्टानि / अथ हरिः राधा-लक्ष्मी-सत्यभामा-रुक्मिणी-गोपिकापतिः / दशावतारसुभगः समुद्रशयनप्रियः // 45 // यदुनाथो गदा-शाहू-श्रीवत्स-लक्ष्मभृत् / मधु-धेनुक-चाणूर-पूतना-यमलार्जुनाः // 46 // . 25
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy