________________ 8.] काव्यशिक्षा रणं थ्रियन्ते वीराः, बन्ध्यन्ते भाले रणपट्टाः, पूज्यन्तेऽस्त्रदेवताः / अस्त्राण्यमूनि खड्गः कुन्तल-भल्ल-गोफण-धनुः कुन्तः फरी मुद्गरो ___ नाराचः पतमाल-पाश-शफरी मुष्टिर्गदा-टिङ्कुली / सिल्लः कर्तरि-वज्र-मुष्टि-फलकं यन्त्रं त्रिशूलं झसं दण्डः कुण्टि-परश्वधा-कटतला चक्राहि-पाशाङ्कुशाः // 76 // लगुडो भिन्दपालश्च हरदं शक्ति-लाकडिः / / यष्टिश्च वह्नितैलं च षट्त्रिंशच्छस्त्रसंग्रहः // 77 // आयुधानां धनुः श्रेष्ठं सिल्लं कुन्तं च मध्यमम् / अधर्म खड्गमित्याहुः छुरिका चाधमाधमा // 78 // 10 गरुडव्यूह-चक्रव्यूह-पद्मव्यहरणम् / इति लोकव्यवहारं गुरुपदविनयादवाप्य कविसारम् / नवनवभणितिश्रव्यं करोति सुतरां क्षणात् काव्यम् // 79 // इत्याचार्यश्रीविनयचन्द्रविरचितायां काव्यशिक्षायां विनयात्रायां लोककौशल्यो नाम तृतीयः परिच्छेदः // 15