________________ 68] सटिप्पणकम् [सर्गः 7 घनचयेत्यादि / घनचयरुचिरे रचयति चिकुरे तरलिततरुणानने / कुरुबककुसुमं चपलासुषमं रतिपतिमृगकानने // 2 // कस्याश्चिद्गोपिकायाः केशपाशे चिकुरे कुरुवककुसुमं आरक्तं झिण्टीकुसुम रचयति निबध्नाति / 'सैरेयकस्तु झिण्टी स्यात्तस्मिन्कुरुबकोऽरुणे' इत्यमरः / किम्भूतम् / चपलासुषमं चपलायाः विद्युत इव सुषमा शोभा यस्य तत्तथा / *सुषमा परमा शोभा [शोभा ] कान्तिर्युतिश्छविरित्यमरः / किम्भूते चिकुरे / घनचयरुचिरे घनानां जलदानां चयो निकरः तद्वद् रुचिरो रमणीयः तस्मिन् / पुनः किम्भूते। रतिपतिमृगकानने / रतिपतिर्मदन एव मृगः तस्य काननं क्रीडावनं तस्मिन् तथा।[पुनः किम्भूते / तरलिततरुणानने तरलितानि विलोकनेन चञ्चलीकृतानि तरुणानां यूनामाननानि मुखानि येन तादृशे] घटयतीत्यादि। घटयति सुघने कुचयुगगगने मृगमदरुचिरूषिते / मणिसरममलं तारकपटलं नखपदशशिभूषिते // 3 // तथा कुचयुगगगने अमलं मणिसरं हारं घटयति योजयति / किम्भूतम् / तारकपटलमिव तारकाणां नक्षत्राणां पटलं समूहस्तमिव / कुचयोर्युगं युग्मं तदेव उच्चत्वाद्गगनम् आकाशं तस्मिन् / 'आधारे सप्तमी / पुनः किम्भूते / मृगमदरुचिरूषिते मृगमदः कस्तूरिका तस्य रुचिः कान्तिः तया रूषितं लिप्तं तस्मिन् / अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियामित्यमरः / पुनः किम्भूते / सुघने सुष्टु अतिशयेन घने निरन्तरे। अन्योन्यपीडनत्वात् अन्तरालरहिते / पुनः किम्भूते / नखपदशशिभूषिते नखपदं वक्रनखाघातस्थानलाञ्छनं चिहनं तदेव शशी चन्द्रः तेन भूषितम् अलंकृतं तस्मिन् / गगनेऽपि शशी तारका जलदा भवन्ति / अत्र मुक्ताहारस्तारकाः, मृगमदः श्यामवर्णत्वाज्जलदः, नखपदमेव शशी / अनेनैव कुचयुगस्य गगनस्योपमा घटति, नान्यथा / 10अत्र प्रलेषोपमालङ्कारः। 11जितबिसशकल इत्यादि। जितबिसशकले मृदुभुजयुगले करतलनलिनीदले / मरकतवलयं मधुकरनिचयं वितरति हिमशीतले // 4 // ____1) A आरक्तमिरी (?) कुसुमं / 2) A मैरेयकस्तु; B drops from सैरेयकस्तु to रित्यमरः / 3 ) Pइत्यमरकोशः 4 ) B drops from सुषमा to रित्यमरः। 5) B घनानां नीलजलदानां यो निकरस्तद्वच्चिकुरो रमणीयस्तस्मिन् / 6) रतिपतिर्मंग इव मदनस्य काननं क्रीडास्थानं तस्मिन् / 7) P, B drop आधारे सप्तमी। 8) P drops from पुनः to लिप्तं तस्मिन् / 9) B drops this line | 10) B स्थान लांछनं। 11) B drops this line.