________________ श्लोकः 1] गीतगोविन्दकाव्यम् [67 राधिका वदति / हे सखि अयं विधुश्चन्द्रः मम हृदये मदनव्यथां अतीवा. तिशयेन तनोति विस्तारयति जनयति / मदनक्षोभेण संतापदुःखव्यथा ताम् / किम्भूतः। सुहृत् सखा। कस्य / मनोभुवः हृदयजस्य, मनसि भवतीति मनोभूः तस्य / किम्भूतः। विरहपाण्डुमुरारिमुखाम्बुजद्युतिः मुरारेर्मुखाम्बुजं पद्मं तस्य द्युतिरिव शोभा यस्य सः तथा। किं कुर्वन् / चेतनां धैर्य विवेकबुद्धिमपि तिरयन् आच्छादयन् / अपिशब्दोऽव्ययः। वेदनामिति पाठे। वेदनां तिरयन्नपि / वेदना शान-दुःखयोरिति हारावली / अनेन किमुक्तम् / चन्द्रमाः हरेमुखसदृश इति न परितापं प्राप्नोमि। कामस्य सुहृद्धेतोः प्रपीडयत्ययमाशयः। प्रतिम[?]रूपकालङ्कारः / तत्र हेतुमाह / समुदितमदनेत्यादि / समुदितमदने रमणीवदने चुम्बनवलिताधरे / मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे // 1 // रमते यमुनापुलिनवने विजयी मुरारिरधुना // ध्रुवपदम् // राधा वदति / अये सस्त्रि अधुना इदानीं मुरारिः श्रीकृष्णः रमते क्रीडति / कस्मिन् / वने। किम्भूते / यमुनापुलिने यमुनायाः पुलिनं यस्मिन् तत्तथा तस्मिन् / कथम्भूतः। विजयी रतिसंग्रामजययुक्त इत्यर्थः। न केवलं क्रीडति / रमणीवदने प्रेयसीमुखे मृगमदतिलकं कस्तूरीतिलकं लिखति / किम्भूतं तिलकम् / प्रविलसदलकं प्रकर्षेण विलसन्तः अलकाः क्षुद्रकुन्तलाः यत्र तत्तथा / अथवा सपुलकं यथा स्यात् सह पुलकेन रोमोद्गमेन वर्तते यस्मिन् कर्मणि तत्तथा स्यात् / कमिव / रजनीकरे चन्द्रे मृगमिव कृष्णसारकलङ्कमिव / अष्टमीचन्द्रे ललाटस्योपमानं संपूर्णे चन्द्रमसि कस्तूरिकातिलकं मृगलाञ्छनतुल्यमिव 10अर्थाल्ललाटे / उपमालङ्कारः / किम्भूते वदने / समुदितमदने सम्यकप्रकारेण मुदितो 11हर्षितो मदनः कामो यत्र तत्तथा / 12अथवा समुदितोऽतिव्यक्तोत्पन्नो मदनो यस्मात्तत्तथा तस्मिन् / पुनः किम्भूते / चुम्बनवलिताधरे चुम्बनाय 13वलितो वर्धितोऽधरोष्ठो यस्मिन् तत्तथा / अथवा चुम्बनाय वलितो 14वारितोऽधरो यस्मिन् तत्तथा / 1) A drops जनयति जययि / 2) B सुहृदः सखा / 3) B drops from मनसि to किम्भूतः / 4) B drops अपिशब्दोऽव्ययः / 5 ) B drops from वेदनां to हारावली। 6) A, B drop प्रतिमरूपकालङ्कारः। 7) मल्हाररागेण गीयते / 8) A, B रमणीय 9 ) A चलिताधरे 10 ) B drops अर्थाल्ललाटे / उपमालङ्कारः 11) B drops हर्षितो। 12 ) B drops irom अथवा to तस्मिन् / 13 ) A चलितो। 14) P's reading seems to be वारितो / A याचितो।