________________ 66] सटिप्पणकम् [सर्गः७ विपुलपुलकेत्यादि / विपुलपुलकपृथुवेपथुभङ्गा / श्वसितनिमीलितविकसदनङ्गा // 6 // पुनः किम्भूता / विपुलपुलकपृथुवेपथुभङ्गा विपुला विस्तीर्णाश्च ते पुलकाश्च ते रोमहर्षाः, पृथुर्महान् अधिकश्चासौ वेपथुः कम्पश्च तेषां भङ्गस्तरङ्गः उदितो यस्याः सा तथा। पुनः किम्भूता / श्वसितनिमीलितविकसदनना / श्वसितं च निमीलितं च ताभ्यां विकसितः विकाशमागतः अनङ्गो यस्याः सा तथा। श्रमजलेत्यादि / श्रमजलकणभरसुभगशरीरा। परिपतितोरसि रतिरणधीरा // 7 // पुनः कथम्भूता / श्रमजलकणभरसुभगशरीरा / श्रमेण जिलं स्वेदः तस्य कणाः तेषां भर आधिक्यं तेन सुभगं श्रीयुक्तं शरीरं यस्याः सा तथा / पुनः किम्भूता / परिपतितोरसि रतिरणधीरा / भर्तुः स्वामिनः उरसि हदये परि समन्ताद्भावेन पतिता सती, रतिरणे सुरतसङ्ग्रामे धीरा कुशला गाढालिङ्गनचुम्बननखाघातादिकर्मलोलुपपुरुषनारायण निर्दययन्त्रणभरसहनसमर्था इत्यर्थः / श्रीजयदेवेत्यादि / श्रीजयदेवभणितहरिरमितम् / कलिकलुषं जनयतु परिशमितम् // 8 // कलिकलुषं कलिहेतुकं पापं शमयतु नाशं नयतु। किम् / श्रीजयदेवभणितं हरिरमितम् / श्रीजयदेवेन भणितं च तत् हरिरमितं चेति 10कर्मधारयः। गीतं प्रलोकेनावतारयति / विरहेत्यादि / विरहपाण्डुमुरारिमुखाम्बुजद्युतिरयं तिरयन्नपि "वेदनाम् / विधुरतीव तनोति मनोभुवः सुहृदये हृदये मदनव्यथाम् // 9 // 1) B यज्जलं। 2) B drops तेषां भर / 3 ) B drops श्रीयुक्तं / 4) B रतीतैः(2) रणे / 5 ) B drops from गाढा to इत्यर्थः। 6 ) A निर्दयत्रपाभर / 7) P श्रोजयदेवभणितमभिलिखितम् / कलिकलुषं शमयतु हरिरमितम् / / 8) A श्रीजयदेवभणितं यत् हरिरमितं तत् कलेः युगस्य कलहस्य कलुषं च पापं तत् यद्वा कलिश्च कलुषं च तयोः समाहारस्तं परिशमितं जनयतु / 9) B प्रशमितं जयतु / 10 ) B drops कर्मधारयः / 11) A चेतनां / The commantary in P and B, however has the reading चेतनां and not वेदनां /