________________ प्रलोकः 5] गीतगोविन्दकाव्यम् तथा मृदुभुजयुगले कोमलतरबाहुद्वये मरकतमणिरचितं वलयं कङ्कणं वित. रति सञ्चारयति / मृदू च तौ भुजौ च तयोर्युगलं तस्मिन् / मरकतेन मणिना निर्मितं यद्वलयं तद् मरकतवलयम् / किम्भूतम् / मधुकरनिचयम् मधुकराणां भ्रमराणां निचय इव तन्मधुकरनिचयम् / किम्भूते / जितबिसशकले जितं बिसशकलं मृणालखण्डं येन तत्तथा तस्मिन् / मृणालादपि कोमलतरे इत्यर्थः / किम्भूते / करतलनलिनीदले करतले करावेव नलिनीदले यस्मिन् तत्तथा तस्मिन् / नलिनी पद्मिनी पद्मपुष्पव्योमसत्त्वे सरोवरे हस्त आतपत्रे च कथ्यते / इति विश्वलोचनः। अत्र हस्तोपमावशात् नलिनीदलं पुष्पं गृह्यते न तु पर्णम्। अष्टदलमिति पद्मे प्रसिद्धिः / लोकोपचाराद्' ग्रहणसिद्धिः। यथा हरीतक्यः फलानीति / तथा च पद्मपुराणे-पाथोजपत्रायतलोचनो युवा इति महर्षिप्रणीतः पाठः। पुनः किम्भूते। हिमशीतले हिमवत् शीतलं यत् तत्तथा तस्मिन् / प्रेयसीगात्रसुखस्पर्शत्वाच्छीतलम् / 'तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गका' इत्यमरः / मधुकरनिचयं जलनलिनीभ्रमरसंयोगः 1°स्वरूपकालङ्कारः / रतिगृहजघन इत्यादि / रतिगृहजघने विपुलापघने मनसिजकनकासने / मणिमयरसनं तोरणहसनं विकिरति कृतवासने // 5 // रतिगृहजघने मणिमयरसनं विकिरति घटयति रतेः रतिसंज्ञकाङ्गनायाः गृहं सन च जघनं चेति तस्मिन् / मणिमयेन रत्नमालया युक्तं रसनं च तत् / किम्भूतम् / तोरणहसनम् / 11तोरणस्य हसनं उपहासो येन स तथा तत् / अथवा / मणिमयं प्रचुरमणिनिर्मितम् / किम्भूते जघने / विपुलापघने / विपुला बृहत्तरा अपघना अवयवा यस्य स तथा तस्मिन् / 1 अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेवरम् / गात्रं वपुः संहननं शरीरं वर्म विग्रहः // इत्यमरः / पुनः किम्भूते / मनसिजकनकासने मनसिजस्य कामस्य कनकासनं सुवर्णमयसिंहासनं तस्मिन् / पुनः किम्भूते / कृतवासने कृतः वासनो वासः धूपादिकसौगन्ध्यविशेषो यस्य स तथा तस्मिन् / अथवा तरुणजनैः कृता वासना वाञ्छा यस्मिन् स तथा तस्मिन् / चरणकिसलय इत्यादि। चरणकिसलये कमलानिलये नखमणिगणपूजिते / बहिरपवरणं यावकभरणं जनयति हृदि योजिते // 6 // ___1)B 'युगले / 2 )P drops मृदू च तौ भुजौ च / 3)B drops भ्रमराणां / 4 )B drops करावेव। 5 ) B drops from नलिनी to °लोचनः / 6) B पाठमेदः प्रसिद्धः / 7) B ग्रहणसंधिः 8) A हारीतक्यः; B हरितक्यं / 9) P पयोज। 10 ) B स्वरूपालङ्कारः / 11) B तोरणानां हसनं / 12) B drops from अङ्ग to इत्यमरः /