________________ प्रलोकः 7] गीतगोविन्दकाव्यम् [63 कस्मिन् / हृदि हृदये / कथम्भूतया। अतिविषमशीलया / अतिशयेन विषम दुःसहः शीलः स्वभावो यस्याः सा तया / किम्भूतां माम् / कुसुमसुकुमारतनुं कुसुमादपि सुकुमारा तनुर्यस्याः सा तथा ताम् / कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः' इत्यमरः। अहमिहेत्यादि / अहमिह निवसामि नै विगलितबलचेतसा / स्मरति मधुसूदनो मामपि न चेतसा // 7 // किञ्च अहं वने निवसामि / सहायाभावे कथं न बिमेषि / तत्राह-न विगलितबलचेतसा 4विगलितं बलं च चेतश्च यस्याः सा तया। सहायाभावेऽपि तेन स्वधैर्येणेह वसामि इति भावः / अनुगणितवनवेतसेति पाठे। किम्भूताहम् / विशेषेण गणिता वनवेतसा यया सा तया / किन्तु मधुसूदनोऽपि मां तत्परां चेतसापि न स्मरति / . हरिचरणेत्यादि। हरिचरणशरणजयदेवकविभारती। वसतु हृदि युवतिरिव कोमलकलावती // 8 // इयं भक्तजनानां हृदि उरःस्थले हरिचरणशरणजयदेवकविभारती वसतु तिष्ठतु / हरेर्वासुदेवस्य चरणौ शरणं यस्य स चासौ जयदेवकविश्चेति तस्य भारती गतिरूपेणेयं वाणी / केव / कामिनां हृदये युवतिरिव / किम्भूता। कोमलकलावती मूर्च्छनादिकला विद्यते यस्याः सा तथा / चतुःषष्टिकलान्विता च सा तथा / कर्मधारयः समासः कोमला चासौ कलावती चेति / युवतिरपि एतादृशी अवयवकोमला शृङ्गारादिकलावती भवतीत्यर्थः। प्रियस्यानागमनहेतुं श्लोकेन कल्पयति / तत्किमित्यादि। तत्किं कामपि कामिनीमभिसृतः किंवा कलाकेलिभि बद्धो बन्धुभिरन्धकारिणि वनोपान्ते किमु भ्राम्यति / कान्तः क्लान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः सङ्केतीकृतमज्जुवजुललताकुजेऽपि यन्नागतः // 3 // 1) अतिविषमा दुःसहा लीला यस्याः / 2) B_drops from कन्दो to इत्यमरः / 3) A न(ग)णितवनवेतसा / B न गणितवनवेता(त)सा / 4) A विगलिते बलचेतसी यस्याः सा तया / 5 ) A अनुगणितवनवेतसा किम्भूताहं विशेषेण गणिता बहुवेतसा यया सा तथा वानीरस्य निकुजवेतसा न विगणयन्तीह वसामीति भावः / नु इति वितर्के। मधुसूदन आगमिष्यतीति आशा किन्तु मधुसूदनो मां तत्परां चेतसापि न स्मरति / 6) A सूचयति / 7) A वनोपान्ते किमुभ्राम्यति /