________________ 64] सटिप्पणकम् [सर्गः 7 यद्यस्मात् कान्तः प्रियः श्रीकृष्णः सङ्केतीकृतमजुवजुललताकुजे नागत एव / मञ्जु मनोशं वज़ुलस्य वानीरस्य लता बल्ल्यः ताभिः सम्पादितः कुञ्जः लतागृहम् अस तः सङ्केतीकृतश्चासौ वजुलताकुञ्जश्चेति तस्मिन् / ननु तस्मात्कारणात् कापि कामिनीम् अभिसृतः उपगतः। किंवा बन्धुभिर्वयस्यैर्बद्धः। किम्भूतैः। कलाकेलिभिः कला परिहासादिः तस्याः केलिः क्रीडा येषां ते तथा तैः। अथवा बन्धुभिः सकान्ताभिः कामकलादिभिः केलयः ताभिः किमु / किंवा वनोपान्ते वनसमीपे ज्ञात्वा भ्रमति भ्राम्यति / किम्भूते / अन्धकारिणि / अन्ध कारो विद्यते यस्मिन् तत्तथा तस्मिन् / अथवा क्लान्तमनाः खिन्नमनाः पथि मार्गे मनागपि स्वल्पमपि प्रस्थातुं समागन्तुम् अक्षमः / वक्ष्यमाणगीतं श्लोके. नावतारयति। अथागतामित्यादि। अथागतां माधवमन्तरेण सखीमियं वीक्ष्य विषादमूकाम् / विशङ्कमाना रमितं कयापि जनार्दनं दृष्टवदेतदाह // 4 // अथानन्तरम् इयं राधा दृष्टवद्यथा भवति तथा एतद्वक्ष्यमाणगीतेन आह उवाच / किं कृत्वा। माधवमन्तरेण कृष्णेन विना आगतां सखीं वीक्ष्य दृष्ट्वा / कथम्भूताम् / विषादभूकां विषादेन मूका सा तथा ताम् / कार्याभावाद्विस्मयेन तूष्णीं स्थिताम् / किम्भूता सा। जनार्दनं श्रीकृष्णं कयापि रमण्या रमितं विशङ्कमाना सती। उत्प्रेक्ष्याह कविरित्यर्थः। वसन्तरागे / एकतालीताले / स्मरसमरोचितेत्यादि। स्मरसमरोचितविरचितवेशा। गलितकुसुमदरविलुलितकेशा // 1 // कापि मधुरिपुणा विलसति युवतिरधिकगुणा // ध्रुवपदम् // राधा वदति। कापि काचन युवतिः अधिकगुणा मधुरिपुणा माधवेन सह विलसति क्रीडति / विनासहसमयोगे तृतीया। अधिको गुणो यस्याः सा तथा। पुनः किम्भूता / स्मरसमरोचितविरचितवेशा। स्मरस्य कामस्य समरः संग्रामः अथवा स्मरेण हेतुभूतेन समरं स्त्रीपुरुषयोः संयोगः तस्मै उचितो योग्यो विरचितः शृङ्गारादिवेशो यया सा तथा / पुनः कथम्भूता / गलितकुसुमदरविलुलितकेशा गलितानि कुसुमानि येभ्यः ते तथा, ईषद्विलुलिताः रतिसुरतायासेन मुक्ताः केशाः यस्याः सा तथा / हरिपरिरम्भणेत्यादि। हरिपरिरम्भणचलितविकारा / कुचकलशोपरि तरलितहारा // 1) A वसन्तरागे; B वसन्तरागेण गोयते यतिताले। 2) A B समरः /