________________ 62] सटिप्पणकम् [सर्गः 7 किञ्च मया यदनुगमनाय यस्य श्रीकृष्णस्य अनुगमनं पश्चाद्गमनं तस्मै प्रयोजनाय निशि रात्रौ गहनम् अरण्यमपि शीलितं आलोडितम् / यदनुगमनायेति कथम् / इच्छायामपि चतुर्थी / अतो हेतोः तेन कृष्णेन ममेदं हृदयं असमशरेण कन्दर्पण कीलितं शङ्कुना विद्धमित्यर्थः। मम मरणमित्यादि। मम मरणमेव वरमतिवितथकेतना / किमिति विषहामि विरहानलमचेतना // 3 // किश्च / अथ तेन शुद्धिरहिता सती अहमिह वने विरहानलं विरहजनि ताग्नि किमिति विषहामि अनुभवामि / किम्भूता। अतिवितथकेतना। अतिवितथं अति नेष्टं केतनं सङ्केतस्थानं यस्याः सा तथा / अतो विरहानलसहनात् मम दुःखितायाः मरणमेव वरं श्रेष्ठमित्यभिप्रायः। विषहामीति गणकृतस्यानित्यत्वात् परस्मैपदम् / मामहहेत्यादि। मामहह विधुरयति मधुरमधुयामिनी / कापि हरिमनुभवति कृतसुकृतकामिनी // 4 // किञ्च अहह कष्टम् / मधुरमधु यामिनी वसन्तरजनी मां विधुरयति दुःखयति / मधुरा रमणीया च मधोर्वसन्तस्य यामिनी चेति सा। तथा कापि कृतसुकृतकामिनी हरिं कृष्णम् अनुभवति / कृत सम्पादितं महापुण्यं यया सा चासौ कामिनी चेति / अहहेत्यादि। अहह कलयामि वलयादिमणिभूषणम् / हरिविरहदहनवहनेन बहुदूषणम् // 5 // अहह कष्टम् / अहं कलयामि / वलयादिमणिभूषणम् / आदिशब्देन बिसकिसलयादिकमपि प्राप्यते। किम्भूतम् / बहुदूषणम् / केन / हरिविरहदहनवहनेन हरेः सकाशाद्विरहो विश्लेषः स एव दहनः कृशानुः तस्य वहनं धारणं तेन / कुसुमसुकुमारेत्यादि। कुसुमसुकुमारतनुमतनुशरलीलया / स्रगपि हृदि हन्ति मामतिविषमशीलया // 6 // 5इयं च वर्तमाना नगपि मालापि मां हन्ति व्यथयति सन्तापयतीत्यर्थः। कया। अतनुशरलीलया। न विद्यते तनुर्यस्य स तथा अतनुः कामः तस्य शरलीलया। 1) A, B °मिति / 2)P विषहामीति गणकृतस्यानित्यत्वात् परस्मैपदम् / B drops this line. 3) A drops किश्च / 4) A यामिनी मां विधुरयति / वसन्तसमयरात्रिः मां दुःखयति / B यामिनी हरि कृष्णम् अनुभवति / (thus drops from वसन्त° to कामिनी)। 5) B drops from इयं to अतनुशरलीलया /