________________ प्रलोकः 2] गीतगाविन्दकाव्यम् [61 तथा। अयमपि व्यभिचारीत्यर्थः / अथवा तस्य पातो निरोधः तेन सञ्जातं पातकं यस्य स तथा इति / / प्रसरतीत्यादि। प्रसरति शशधरबिम्बे विहितविलम्बे च माधवे विधुरा / विरचितविविधविलापं सा परितापं चकारोच्चैः // 2 // सा राधा परितापं खेदम् उच्चैः अतिशयेन चकार / किम्भूतम् / विरचितविविधविलापम् / विरचितो विविधो नानाप्रकारो विलापो यस्मिन् 'स तथा / तस्मिन् सति किम्भूता सा। विधुरा दुःखिता सती / कस्मिन् सति / शशधरबिम्बे चन्द्रमण्डले प्रसरति सति / विस्तारं प्राप्नुवति सति / न केवलं चन्द्रमण्डले प्रसरति। माधवे श्रीकृष्णे विहितविलम्बे सति / विरचितेति पाठे सति सा राधा उच्चैः परितापं चकार / विरचितः कृतः विविधो विलापो यत्र स तथा तम् / अनेन किमुक्तं कविना श्रीजयदेवेन / सा राधा तदेकमनाः कृष्णतत्परा वर्तत इत्यर्थः।। 'मालवरागे परिमठे ताले। कथितसमयेऽपीत्यादि। कथितसमयेऽपि हरिरहह न ययौ वनं मम विफलमिदममलरूपमपि यौवनम् / यामि हे कमिह शरणं सखीजनवचनवश्चिता // ध्रुवपदम् // 1 // हे इत्यदृष्टसम्बोधनम् / हे देव "इह अधुना के शरणं रक्षितारं यामि गच्छामि / किम्भूता सखीजनवचनवञ्चिता / सखी चासौ जनश्चेति / तस्य वचनम् / तेन वञ्चिता10 / कथम् / यतः कथितसमयेऽपि सख्या कथितश्चासौ समयश्चेति तस्मिन्नपि हरिर्वनं न यया न गतः / अहह महाकष्टं तेन कारणेन ममेदम् अमलं सुन्दरं रूपं यौवनमपि विफलं निष्फलमेवाभूत् / यदनुगमनेत्यादि। यदनुगमनाय निशि गहनमपि शीलितम् / तेन मम हृदयमिदमसमशरकीलितम् // 2 // 1) A, B drop from अथवा...to तथा इति / 2) A सः तम् / कस्मिन् सति शशधरविम्बे चन्द्रमण्डले प्रसरति विस्तारं प्राप्नुवति सति विधुरा दुःखिता / अनेनैतदुक्तम् / सा राधा कृष्णतत्परा वर्तत इत्यर्थः। 3) B drops विस्तारं प्राप्नुवति सति / 4) P adds कृत before विहित। 5) A, B drop from सा to स तथा तम् / 6) A, B drop तदेकमनाः। 7) A drops from मालव to ताले। B मालवरागेण गोयते परिमठताले। 8) A adds इति before ध्रुवपदम्। 9 ) B इह कं शरणं यामि रक्षितारं गच्छामि / 10) B adds प्रवंचिता /