________________ 60] सटिप्पणकम् [सर्गः 7 दीनि च लीलाशतं च तानि / तेषु व्यासक्तापि / अनल्पमनस्कापि / इति कथम् / अङ्गेषु करचरणादिषु बहुशो बहुतरम् आभरणमलङ्कारं सा करोति / 1अथ बहुलं यथा स्यात्तथा पत्रेऽपि सञ्चारिणि चलति सति / त्वां कृष्णं प्राप्तं समागतं परिशङ्कते विकल्पयति / तथा वितनुते विस्तारयति / काम् / शय्याम् / तथा त्वां चिरं ध्याययतीत्यनेन [संकल्प उक्तः।] इति गीतगोविन्दटीकायां सोत्कण्ठवैकुण्ठो नाम षष्ठः सर्गः / सप्तमः सर्गः / नागरनारायणः / अत्रान्तर इत्यादि। अत्रान्तरे च कुलटाकुलवमपात संजातपातक इव स्फुटलान्छनश्रीः / वृन्दावनान्तरमदीपयदंशुदीपै दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः // 1 // अत्रान्तरे अवसरे इन्दुश्चन्द्रमाः। अदीपयत् प्रकाशितवान् / किम्। वृन्दावनान्तरम् वृन्दावनस्य अन्तरं अभ्यन्तरमित्यर्थः। तत्तथा। कैः। अंशुदीपैः अंशवः किरणा एव दीपास्तैः। पुनः कथम्भूतः। वदनचन्दन बिन्दुः। चन्दनस्य बिन्दुः, प्राची दिगेव सुन्दरी, तस्याः वदनम् , तत्र चन्दनबिन्दुः पुनः किम्भूतः / स्फुटलाञ्छनश्रीः लाञ्छनस्य कलङ्कस्य श्री शोभा, स्फुटा 'प्रव्यक्ता लाञ्छनस्य श्रीयस्मिन् स तथा। किम्भूत इव / कुलटाकुलवमपातसातपातक इव / कुलटाकुलवम॑पाते सजातपातक इव / कुलान्यटन्तीति कुलटाः, व्यभिचारिण्यः, असत्यः, तासां कुलं समूहः तस्य वर्त्म मार्गः तत्र 'पातः पतनं तेन सञ्जातं पातकं यस्य स I) B drops from अथ to चलति सति। 2) A ध्यायति / 3) B इति श्रीगीतगोविन्दे महाकाव्ये टोकायां षष्ठसर्गः / 4 ) B ends the canto with the following additional verse. किं विश्राम्यसि कृष्ण भोगिभवने भाण्डीरभूमोहि भ्रातर्याहि न दृष्टिगोचरमितः सानन्दनन्दास्पदम् / राधाया वचनं तदध्वगमुखान्नन्दान्तिके गोपतो ____गोविन्दस्य जयन्ति सायमतिथिप्राशस्त्यगर्भा गिरः // 5) B दंशुजालै- / 6) A) वृन्दावनान्तरं वृन्दावनस्याभ्यन्तरमदीपयत् / 7) A व्यक्ता। 8) B drops from कुलटा to इव। 9 ) B घात वाथवा पातः /