________________ श्लोकः 2] गीतगोविन्दकाव्यम् [59 रसिकश्चासौ जनश्च सः तम् / अथवा। रसिकजनम् अतिमुदितम् अतिदृष्टं विस्तारयतु / गीतार्थ प्रलोकाभ्यां विस्तारयति कविः। विपुलपुलकेत्यादि। विपुलपुलकपालिः स्फीतसीत्कारमन्त जनितजडिमकाकुव्याकुलं व्याहरन्ती / तव कितव विधायामन्दकन्दर्पचिन्तां ___ रसजलधिनिमग्ना ध्यानलग्ना मृगाक्षी // 2 // सखी वदति वासुदेवं प्रति / हे कितव धूर्त कापटिक, सा मृगाक्षी मृगनयना राधिका विधत्ते कुरुते / काम् / अमन्दकन्दर्पचिन्ताम् / अमन्दः इत्युत्कटश्वासौ कन्दर्पश्च तेन चिन्तां सुरतसुखसंभोगप्रयोजनाम् / किम्भूता। ध्यानलग्ना / ध्यानं समाधिः तत्र लग्ना तत्परा। पुनः किम्भूता। रसजलनिधिमग्ना। रसः शृङ्गारः स एव जलनिधिः तत्र मग्ना प्रविष्टा शृङ्गाररसकुशलेत्यर्थः। पुनः किम्भूता। विपुलपुलकपालिः / विपुलानि पुलकानि पान्तीति रज[य]न्तीति विपुलपुलकपाः तेषामालिः पक्तिः विपुला विस्तृता पुलकपालिर्यस्याः तथा / अथवा / विपुला विस्तृता पुलकपालिर्माला यस्याः सा तथा। किं कुर्वती / व्याहरन्ती वदन्ती। कथम् / अन्तर्जनितजडिमकाकुव्याकुलं यथा भवति तथा / जनितश्चासौ जडिमा जाडथं च, अन्तः अभ्यन्तरे अन्तःकरणे जनितो जडिमा तेन काकुलनिः स्त्रीणां विकारशब्दः, तेन व्याकुलं व्यग्रं तत् / पुनः कथम्भूतम् / स्फीतसीत्कारं यथा भवति, स्फीतः प्रचुरः सीत्कारो यस्मिन् तत्तथा। अङ्गेष्वित्यादि। अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि संचारिणि प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति / . इत्याकल्पविकल्पतल्परचनासङ्कल्पलीलाशत व्यासक्तापि विना त्वया वरतनु:षा निशां नेष्यति // 3 // इति श्रीगीतगोविन्दे वासकसज्जावर्णने सोत्कण्ठवैकुण्ठो नाम षष्ठः सर्गः / हे नाथ / एषा वरतनुः शोभनाङ्गी राधा / त्वया विना त्वां प्राणनाथं विना अन्तरेण निशाम् इमां रात्रि न नेष्यति / किम्भूता सती। इत्याकल्पबिकल्परचनासङ्कल्पलीलाशतव्यासक्तापि। क्रमेण / आकल्पः आभरणं विकल्पः परिशङ्का च तर्कयति तल्परचना शय्यारचना / सङ्कल्पो मानसं कर्म ध्यानं वा। इत्या 1) B जलनिधिः समुद्रस्तत्र / 2) B drops रज(योन्तीति / 3 ) P, A, B all these MSS read स्त्रीणां, possibly a mistake for स्त्रियां। 4 ) B शुभाङ्गो 5) A and B do not contain asfa-these words probably have crept in through scribe's inadvertence.