________________ 58] सटिप्पणकम् [सर्ग 6 नवनीरदाभं ध्यानयुक्त्या हृदयस्थनारायणं सततमवलोक्य अहमेव मधुरिपुरिति अयमाशयः / इति मत्वा किं करोतीत्याह / त्वरितमित्यादि त्वरितमुपैति न कथमभिसारम् / हरिरिति वदति सखीमनुवारम् // 5 // तथा भो कृष्ण सा राधिका मां सखी प्रति अनुवारं वारंवारं प्रतिवदति / कथम् / इति / इति कथम् / हरिः श्रीकृष्णः अभिसारं सङ्केतस्थानं त्वरितं शीघ्र कथं नोपैति आगच्छति मत्सकाशम् / रिलष्यतीति श्लिष्यति चुम्बति जलधरकल्पम् / हरिरुपगत इति तिमिरमनल्पम् // 6 // तथा सा अनल्पं बहुतरं तिमिरम् अन्धकारं / श्लिष्यति आलिङ्गति / न केवलं श्लिष्यति चुम्बति / किम्भूतं तिमिरम् / जलधरकल्पं नीलमेघसन्निभम् / किमिति वितर्के / हरिः श्रीकृष्णः उपगतः समागत इति बुद्धया / भवतीत्यादि। भवति विलम्बिनि विगलितलज्जा। विलपति रोदिति वासकसज्जा // 7 // तथा सा राधिका वासकसज्जा वासकस्थाने लतागृहे सज्जा तत्परा इत्यर्थः कृतशृङ्गारवेषा सती विलपति / विलापं शोकं करोतीत्यर्थः। न केवलं विलपति रोदिति च / रोदनं करोति (च)। कस्मिन् सति / भवति त्वयि सति / कथम्भूते / विलम्बिनि / कृतविलम्बे सति। विलम्बो निवृत्तिः अनागमनहेतुः सोऽस्यास्तीति मन्त्वन्तीन् विलम्बी। तस्मिन् / तदस्यास्तीति मन्त्वन्तीन् [कातन्त्र // 504 // (तद्धित) तदिति प्रथमान्ताद् अस्यास्तीति एतस्मिन्नर्थ मन्तु वन्तु विन् इन् इत्येते प्रत्यया भवन्ति / किम्भूता सा। विगलितलज्जा। विगलिता अपगता लज्जा यस्याः सा। अनेन किमुक्तम् / सा राधिका कामानुकीर्णा समीपस्थितसस्त्रीनां लज्जां न करोतीत्यर्थः। श्रीजयदेवकवेरित्यादि। श्रीजयदेवकवेरिदमुदितम् / रसिकजनं तनुतामतिमुदितम् // 1 // श्रीजयदेवकवेः उदितं भणितम् इदं तनुतां विस्तारयतु / भावे क्तप्रयोगे कर्तरि वा षष्ठी भवति / अतिमुषितं सुखदायकम् / के प्रति / रसिकजनं प्रति / 1) B त्वयि विलम्बिनि सति / कृतविलम्बे सति / 2) B आगमनहेतुः। 3) A, B drop तदस्यास्तीति मन्त्वन्तीन् / 4) P भावे क प्रयोगे कर्तरि वा षष्ठी भवति / B drops from भावे to षष्ठी भवति /