________________ प्रलोकः 2] गीतगोविन्दकाव्यम् [57 __ हे नाथ स्वामिन् / हे हरे श्रीकृष्ण / राधा वासगृहे सीदति / अवसाद प्राप्नोति / अवसादमेवोपपादयति / रहसि निभृते वर्तमाना सा भवन्तं त्वां पश्यति उद्वीक्षते / क्व / दिशि दिशि प्रतिदिमित्यर्थः। किम्भूतं भवन्तम् / पानं कुर्वन्तं पिबन्तम् / कानि / तदधरमधुरमधूनि / मधुराणि मधुरानुरूपीणि च / तस्या राधिकायाः अधरः तस्य मधुरमधूनि तानि। त्वदभिसरणेत्यादि। . त्वदभिसरणरभसेन वलन्ती। पतति पदानि कियन्ति चलन्ती // 2 // तथा तत्र वसन्ती त्वदभिसरणरभसेन त्वदागमनौत्सुक्येन कियन्ति कति पदानि चलन्ती सती पतति / त्वां प्रति अभिसरण अनुगमनं तस्य रभसस्तेन यदि कियन्ति पदानि चलन्ती पतति / तर्हि किमिति न म्रियत इत्याह / विहितेत्यादि। विहितविशदबिसकिसलयवलया। जीवति परमिह तव रतिकलया // 3 // हे कृष्ण / इह अस्मिन् समये परं केवलं तव रतिकलया, रतिलेशः कला, तया जीवति / किम्भूता। विहितविशदबिसकिसलयवलया। बिसस्य मृणालस्य किसलयानि / विशदानि शुभ्राणि च तानि विसकिसलयानि च तेषां वलयानि विहितानि कृतानि विशदबिसकिसलयवलयानि यया सा तथा। मुहुरवलोकितेत्यादि। मुहुरवलोकितमण्डनलीला / मधुरिपुरहमिति भावनशीला // 4 // हे नाथ नारायण ! *पुनः किम्भूता सा। मधुरिपुरहमिति भावनशीला / 5मधुरिपुः श्रीकृष्णः अहमेव इति भावेन शीलं स्वभावो यस्याः सा तथा / पुनः किम्भूता सती / मुहुरवलोकितमण्डनलीला। मुहुः पुनः पुनः अवलोकितानि च तानि मण्डनानि हाराङ्गदादीनि च / तेषु लीला क्रीडा यस्याः सा तथा / 'मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समा इत्यमरः। अनेन किं कथितम् / हाराङ्गदकङ्कणमुकुटालङ्कारादिनालङ्कृतं . शङ्खचक्रगदापद्मधारिणं पीताम्बरं 1) A भवन्तम् / तदधरमधुरमधूनि पिबन्तं तस्या राधिकाया अधरस्य मधुराणि मधूनि तानि पिबन्तम् / 2) P drops त्वदागमनौत्सुक्येन; B ( त्वदभिसरण )मनुगमनं तस्य रभसस्तेन वलन्ती कियन्ति पदानि चलन्ती पतति / 3).A म्रियते तत्राह / 4) A पुनः सा मधुरिपुरहमिति भावनशीला सा वर्तते / 5) A drops from मधु ...to मण्डनलीला। 6) A पीताम्बरं नीलनीरयुक्तनीरदाभं लक्ष्मीकौस्तुभोरस्क वनमालिनं ध्यानयुक्ता हृदयस्थं सततमवलोक्य अहमेव मधुरिपुरिति भवन्मयतां प्राप्ता अयमाशयः / ततः किं करोतीत्याह /