________________ 56] सटिप्पणकम् [सर्गः 6 कथं यथा स्यात् / मन्दं यथा स्यात् , क्रियाविशेषणम् / पदानि वितन्वतीम् विस्तारयन्तीम् / किं कृत्वा / मुहुः स्थित्वा / क्व / प्रतितरु / तरं तरं प्रति। तस्मिन् / अव्ययीभावसमासः / अनेन किमुक्तम् / कामरसजनकवचनैर्मानमपनयतीत्यर्थः। इति श्रीगीतगोविन्दटीकायाम् अभिसारिकावर्णने साकाङ्क्षपुण्डरीकाक्षो नाम पञ्चमः सर्गः। षष्ठः सर्गः / सोत्कण्ठवैकुण्ठः / गीतं प्रलोकेनावतारयति / अथ तामित्यादि / अथ तां गन्तुमशक्तां चिरमनुरक्तां लतागृहे दृष्ट्वा / तच्चरितं गोविन्दे मनसिजमन्दे सखी पाह // 1 // अथानन्तरं या प्रस्थापिता सखी ततो गत्वा तां राधां गोविन्दे कृष्णे समीपं गन्तुमशक्ताम् असमर्थी चिरं बहुकालं श्रीकृष्णेऽनुरक्तां युक्तं प्राह / किम्भूते / मनसिजमन्दे / मनसि जायत इति मनसिजो मारः तेन मन्दः क्लान्तस्तस्मिन् / किं कृत्वा / एवंगुणविशिष्टं राधिकायाश्चरितं तच्चरितम् / गुणकरीरागे। रूपकताले / पश्यति दिशीत्यादि। पश्यति दिशि दिशि रहसि भवन्तम् / तदधरमधुरमधूनि पिबन्तम् // नाथ हरे सीदति राधा वासगृहे // ध्रुवपदम् // 1 // 1) A drops यथा स्यात् क्रियाविशेषणम् / 2) A drops तस्मिन् / 3) A drops अभिसारिकावर्णने B concludes thus, इति श्रीगीतगोविन्दे महाकाव्ये श्रीजयदेवकृतौ टीकायां साकाक्षपुण्डरीकाक्षो रामा( ? धा )भिसारिकावर्णनं नाम पञ्चमः सर्ग(गः) / 4) B adds the following stanza in concluding the canto but does not give the gloss thereon : राधामुग्धमुखारविन्दमधुपस्त्रैलोक्यमौलिस्थलो नेपथ्योचितनीलरत्नमवनीभारावतारान्तकः / स्वच्छन्दं ब्रजसुन्दरीजनमनस्तोषप्रदोषोदयः __ कंसध्वसनधूमकेतुरवतु त्वां देवकीनन्दनः / / 5) A drops किं कृत्वा / 6) P गणकरौ, A drops रूपकताले; B नटरागेण गीयते वासगृहे / 7) P नाथ हरे विरहे तब सीदति राधा / 8) P ध्रुवं पदम् /