________________ श्लोकः 6] गीतगोविन्दकाव्यम् अन्याय गतयोः क्रमान्मिलितयोः संभाषणैर्जानतो दम्पत्योरिह को न को न तमसि व्रीडाविमिश्रो रसः // 5 // . इह समये दम्पत्योः स्त्रीपुरुषयोः रसः। को न, को न / अपि सर्वोऽपि / 'दम्पती जम्पती जायापती भार्यापती च तौ' इत्यमरः। किम्भूतो रसः। व्रीडाविमिश्रः ब्रीडया लज्जया विमिश्रो मिश्रीभूतः। कथम्भूतयोः / अन्योऽन्यं गतयोः मिलितयोः। कस्मात् / क्रमात् अनुक्रमात् / कस्मादनु / आश्लेषात् / आलिङ्गनात् / न केवलं आश्लेषादनु / चुम्बनादनु / न केवलं चुम्वनादनु / नखोल्लेखादनु / न केवलं नखोल्लेखादनु / स्वान्तजप्रोबोधादनु / आत्मनोऽन्तः स्वान्तः अन्तःकरणम् / तत्र जायत इति स्वान्तजः कन्दर्पः / तस्य प्रोद्बोधः प्रकृष्ट उद्बोधः / संभ्रमः / क्षोभः स्त्रीपुरुषाङ्गस्पर्शविकारः तस्मात् / अनन्तरकालं प्रीतयोः मुदितयोः। तदनन्तरं तमसि बहुलान्धकारे संभाषणैर्वचनैर् अन्योऽन्यं जानतो परिचयं गतयोरित्यर्थः। सभयचकितमित्यादि। सभयचकितं विन्यस्यन्ती दृशं तिमिरे पथि प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम् / कथमपि रहः प्राप्तामङ्गैरनङ्गतरङ्गिभिः मुमुखि सुभगः पश्यन्स त्वामुपेतु कृतार्थताम् // 6 // इति श्रीगीतगोविन्दे अभिसारिकावर्णने साकाङ्क्षपुण्डरीकाक्षो नाम पञ्चमः सर्गः। हे सुमुखि राधे स कृष्णः त्वां पश्यन् अवलोकयन् कृतार्थतां कृतकृत्यताम् Bउपैतु प्राप्नोतु / किम्भूतः / सुभगं माहात्म्यं यस्य स सुभगः / कथम्भूतां त्वाम् / कथंकथमपि महत्कष्टेन रहः एकान्ते प्राप्ताम् / कैः। अङ्गैः / "कुचबाहुहृदयनाभिनितम्बादिगात्रैः। किम्भूतैः / अनङ्गतरङ्गिभिः। अनङ्गेन कन्दर्पविकारेण तरङ्गीणि / चञ्चलगुणसहितानि / कृष्णगात्रस्पर्शलोभीनि तैस्तथाभूतैः / किं कुर्वन्तीं त्वाम् / सभयचकितं यथा स्यात्तथा पदानि चरणानि विन्यस्यन्तीम् आरोपयन्तीम् / सभयं चकितं यस्मिन् कर्मणि तत्तथा। कस्मिन् / पथि / न केवलं पदानि / दृशं दृष्टिं च विन्यस्यन्तीम् / कस्मिन् / तिमिरे अन्धकारे / I) A अन्योन्यं / 2) A, B भ्रमान्मिलितयोः। 3 ) P, A भार्यापती जायापती, B drops the whole quotation from दम्पती...10 इत्यमरः 4) A आश्लेषादालिजनादनु चुम्बनादनु नखोल्लेखादनु स्वान्तजो मनसिजः कन्दर्पस्तस्य... जातः 5) B उपैति प्राप्नोति / 6) B सुष्ठु भग(:) माहात्म्य / 7) A कुचकक्षानाभी(? भि)-8) A drops from सभयं to तत्तथा /