________________ सटिप्पणकम् [ सर्गः 5 विकिरतीत्यादि। विकिरति मुहुः श्वासानाशाः पुरो मुहुरीक्षते प्रविशति मुहुः कुंजं गुजन् मुहुर्बहु ताम्यति / रचयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते मदनकदनक्लान्तः कान्ते प्रियस्तव वर्तते // 3 // हे कान्ते सुन्दरि तव प्रियः कान्तः श्रीकृष्णः मदनकदनक्लान्तो वर्तते / मदनेन कदनं कदर्थनं बाणप्रहारः तेन क्लान्तः श्रान्तः / क्लान्तत्वमेवोपपाद्यति / मुहुः पुनः श्वासान् विकिरति क्षिपति / तथा मुहुः भूयोभूयः पुरोऽग्रं आशासु दिक्षु ईक्षते / तथा मुहुर्वारंवारं कुजं प्रविशति / तथा मुहुः कुञ्जन् (गुञ्जन् ) अव्यक्तशब्द यथा स्यात्तथा ताम्यति / ग्लानि भजते / तथा मुहुः शय्यां रचयति / तथा मुहुः पर्याकुलं यथा स्यात्तथा ईक्षते / त्वद्वाक्येन सममित्यादि। त्वद्वाक्येन समं समग्रमधुना तिग्मांशुरस्तं गतो गोविन्दस्य मनोरथेन च सह प्राप्तं तमः सान्द्रताम् / कोकानां करुणस्वनेन सदृशी दीर्घा मदभ्यर्थना तन्मुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षणः // 4 // हे मुग्धे विवेकशून्ये तत्तस्मात् विलम्बनं विफलं निष्फलम् / यतो रम्यो रमणीयोऽसौ अभिसारक्षणो वर्तते / अभिसरणं अभिसारः सङ्केतस्थानम् / तस्य क्षणोऽवसरः। तदिति कस्मात् / यस्मात्कारणात् / समग्रं सम्पूर्ण यथा स्यात्तथा / तिग्मांशुः सविता अस्तं गतः। कथम् / समम् / केन / त्वद्वाक्येन तव वाक्यविश्वासामृतेन सह / तमः सान्द्रतां निबिडतां प्राप्तं गतम् / केन सह / गोविन्दस्य मनोरथेन साह / सान्द्रतां निबिडतमः प्राप्तं गतम् / केन सह / गोविन्दस्य मनोरथेन सह / मनोरथः तव सङ्गमाकाङ्क्षा तेन / तथा मदभ्यर्थना दीर्घा महती विस्तीर्णा / पुनः कथम्भूता / सदृशी तुल्या / केन / करुणश्चासौ स्वनो ध्वनिस्ते / केषाम् / कोकानां चक्रवाकानाम् / आश्लेषादित्यादि। आश्लेषादनु चुम्बनादनु नखोल्लेखादनु स्वान्तज पोद्बोधादनु संभ्रमादनु रतारम्भादनु प्रीतयोः / 1) P श्वासानाशापुरो, B श्वासानासापुरो ( ? श्वासान्नासापुरो) / 2) P कुछ कुअन् / 3) A श्रीकृष्णमेवोपपादयति / 4) A आशाः दिशो in the margin in place of आशासु दिक्षु / 5) A तदिति कुतः / यतः 6) A, B add मम प्रार्थना /