________________ श्लोकः 7] गीतगोविन्दकाव्यम् [53 हरिरभिमानीत्यादि / हरिरभिमानी रजनिरिदानीमियमपि याति विरामम् / कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम् // 7 // हे राधे हरिनन्दसूनुः अभिमानी। अतिशयेन मानोऽभिमानो यस्यास्तीति स तथा। मनस्वी प्रभुरीश्वरश्च / यदि त्वामवमन्य अन्यां प्रति याति (यास्यति) तर्हि किं करोषि / अपरमपि शृणु / इदानीं रात्रिविद्यते। गच्छ / त्वां कोऽपि न पश्यतीति। इयमपि रजनी रात्रिः 'विरामं याति / भविष्यत्सामीप्ये वर्तमानकालः रात्रिस्तु क्षयशीला प्रभातोन्मुखी अतो हेतोर्मम वचनं कुरु / सत्वरः रचनं यथा स्यात् सह त्वरा शीघ्रत्वेन रचनं यस्मिन् तत् / अथवा सत्वरगमनं त्वरं शीघ्रं गच्छ / न केवलं एतत्कुरु / मधुरिपुकाममभिलाषं पूरय / मधुरिपोः हरेः कामं पूरय / अनेन किमुक्तम् / 4हरिस्तु चौर्यसुरताभिलाषी संकेतस्थाने तिष्ठति / सा सखी कुट्टिनी दूती राधां कुलटामभिसारिकां चालयतीत्यर्थः। कुलटायाः लक्षणं किम् / संलीना स्वेषु गात्रेषु भूकीकृतविभूषणा / अवगुण्ठनमन्वीता त्रस्तविन्यस्तलोचना // वेपमानोरुयुगला प्रस्खलन्ती समेऽसमे।। - वात्स्यायनकामशास्त्रमतमिदम् / श्रीजयदेवेत्यादि / श्रीजयदेवे कृतहरिसेवे भणति परमरमणीयम् / प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयम् // 8 // हे बुधजनाः हरिं कृष्णं नमत / किम्भूतम् / सुकृतकमनीयम् / सुकृतेन जन्मार्जितपुण्येन कमनीयोऽभिलषणीयस्तम् / पुनः किम्भूतम् / 'अतिसदयम् / दयया सह वर्तत इति तथा / अतिशयेन स्वभक्त्या सदयस्तम् / पुनः किम्भूतम् / प्रमुदितहृदयम् / प्रकर्षण मुदितं हर्षयुक्तं हृदयं यस्य स तथा तम् / कस्मिन् सति / परमरमणीयं यथा स्यात्तथा / श्रीजयदेवे भणति सति / किम्भूते। कृतहरिसेवे / कृता हरेः सेवा येन स तथा / राधायाः शीघ्रगमनार्थमाह / श्लोक चतुष्टयम् / 1) B drops मनस्वी / 2) A विरामम् अवसानम्. / 3 ) A वर्तमानसामोप्ये वर्तमानवद्वा / B भविष्यत्सामीप्ये वर्तमानः कालः / 4) B हरिस्तवार्थे सुरताभिलाषी। 5) B drops कुट्टिनी, and कुलटां। 6) P कमनीयोऽभिलषणीयस्तम् ; कमनीयं अभिलषणीयं B कमनीयो अभिलषणीयो तं। 7) A दयया सह वर्तते इति सदयस्तं तथा / 8) B चतुष्टयेन /