________________ 52] सटिप्पणकम् [सर्गः 6 गुणरहितम् / पुनः किम्भूतम् / केलिसुलोलम् / केलौ क्रीडायां सुलोलम् अतिचञ्चलम् / किम्भूतं कुञ्जम् / सतिमिरपुञ्जम् / तिमिरस्य ध्वान्तस्य पुञ्जो निकरस्तेन सह वर्तत इति / तथा नीलं नीलवर्ण निचोलं वस्त्रं शीलय परिधेहि / नीलश्चासौ निचोलश्चेति / यद्यसौ नायाति तर्हि अहमपि न यास्यामीति चेत्तत्राह। उरसीत्यादि। उरसि मुरारेरुपहितहारे घन इव तरलबलाके / तडिदिव पीते रतिविपरीते राजसि सुकृतविपाके // 5 // हे पीते गौराङ्गि राधे त्वं मुरारेर्वासुदेवस्य उरसि हृदये तडिदिव विद्युदिव राजसि; भविष्यदर्थे वर्तमाना' शोभिष्यसे 'सामीप्ये वर्तमानवद्धातुः'। कदा / रतिविपरीते / रतेः सुरतस्य विपरीतं विपरीतावस्था तस्मिन् / किम्भूते उरसि। उपहितहारे। उपहितो न्यस्तः हारोमुक्तावली यस्मिन् / पुनः किम्भूते। तरलबलाके घन इव / तरलाऽवदाता 'बलाका यस्मिन् स तथा तस्मिन् / बलाका बकपङ्क्तिः स्याद् बलाका बिशकण्ठिका' इति विश्वलोचनः / कस्मिन् समये / सुकृतविपाके / सुकृतस्य जन्मान्तरार्जितपुण्यस्य विपाकस्तस्मिन् / अथवा सुकृतस्य पुण्यस्य विपाकः फलं यस्मिन् तथा तस्मिन् / गत्वा किं करोमि / तत्राह। विगलितवसनमित्यादि। विगलितवसनं परिहृतरसनं घटय जघनमपिधानम् / किशलयशयने पङ्कजनयने निधिमिव हर्षनिधानम् // 6 // हे सखि त्वम् अपिधानम् अनावृतं यथा स्यात्तथा जघनं घटय संयोजय। कस्मिन् विषये / पङ्कजनयने श्रीकृष्णे / विशेषणेन विशेष्यप्रतिपत्तिः। कस्मिन् / किशलयशयने / किशलयं नवपल्लवं तस्य शयनं शय्या / तस्मिन् / किम्भूतं जघनम् / 'विगलितवसनं विगलितं वसनं यस्मात्तत्तथा / पुनः किम्भूतम् / परिहृतरसनम् / परिहृता रसना यस्मात्तत्तथा। याकारौ स्त्रीकृतौ ह्रस्वौ क्वचित् / पुनः किम्भूतम् / हर्षनिधानं हर्षस्य निधानम् आश्रयः। कमिव / निधिमिव / तर्हि स एवायातु / 'तत्राह / - 1) B drops from यद्यसौ to चेत्तत्राह। 2 ) A, B गौरि / 3) A drops 'सामीप्ये वर्तमानवद्धातुः'; B drops both 'भविष्यदर्थे वर्तमाना' and 'सामीप्ये वर्तमानवद्धातुः'। 4) P and B drop तत्राह / P निदानम् / 5) B drops from विगलित to परिहृतरशनम् / 6) B किम्भूतं हर्षस्य निदानं मूलकारणं आश्रयः / कमिव निधिमिव / 7) P drops तत्राह।