________________ श्लोकः 2] गीतगोषिन्दकाव्यम् [51 यत्र तस्मिन् / तं वनमालिनं हृदयेश मवचनादनुसर गच्छ / गमनविलम्बनं मा कुरु / मा कृथाः। अनुमत्यर्थे पञ्चमी किम्भूतम् / गतम् / कस्मिन् अभिसारे / सङ्केतस्थाने / किम्भूते / रतिसुखसारे रतेः सुखं तदेव सारो यस्य तस्मिन् / पुनः किम्भूतम् / मदनमनोहरवेशम्। मदनस्येव मनोहरो रमणीयः अलङ्कारा. दिना वेशो रूपभावो यस्य स तथा। तम् / नामसमेतमित्यादि। नामसमेतं कृतसङ्केतं वादयते मृदु वेणुम् / बहु मनुते नैनु ते तनुसङ्गतपवनचलितमपि रेणुम् // 2 // स वनमाली किं करोति / वेणुं वंशं वादयते / नामसमेतम् / तव नाम्ना समेतं संयुक्तम् / कृतः सङ्केतो यस्मिन् कर्मणि तत्कर्म तत्तथा। ननु हे राधे बहु बहुतरं यथा स्यात्तथा मनुते स्वीकुरुते / कम् / रेणुमपि / कथम्भूतम् / ते तव 'तनुसङ्गतम् / पवनचलितम् / पवनेन चलितः आनीतः तथा शरीररेणुसंबन्धः स चासौ पवनचलितस्तं तथा। 'पतति पतत्रे इत्यादि। पतति पतत्रे विचलति पत्रे शङ्कितभवदुपयानम् / रचयति शयनं सचकितनयनं पश्यति तव पन्थानम् // 3 // शङ्कितभवदुपयानं यथा 1°स्यात्तथा तव पन्थानं मार्ग पश्यति / अवलोकयति। भवत्या उपयानम आगमनं शङ्कितमिव यस्मिन् कर्मणि तत्तथा। कस्मिन सति / पतत्रे पक्षिणि द्रुमेषु पतति सति / पत्रे विचलति सति / कथं पश्यति / सचकितनयनं यथा स्यात।चकितेन सह वर्तमाने नयने यस्मिन् कर्मणि तत्तथा। एतल्लक्षणं प्राप्य किं करोति / शयनं शय्यां रचयति / अनेन किमुक्तम् / सर्वप्रकारेणैकमनास्त्वामागतां जानातीत्यर्थः। मुखरमित्यादि। मुखरमधीरं त्यज मजीरं रिपुमिव केलिसुलोलम् / चल सखि कुजं सतिमिरपुजं शीलय नीलनिचोलम् // 4 // ततस्त्वं हे सखि राधे रिपुमिव मञ्जीरं नूपुरं त्यज / जहीहि / कुजं चल गच्छ / किम्भूतं मञ्जीरम् / 11मुखरं रवयुक्तम् / पुनः किम्भूतम् / अधीरं धीर 1)B drops अनुमत्यर्थे पञ्चमी / 2 ) B drops from किम्भूतम् to पुनः / 3) B मदनस्य मनोहरो वेषो आकारादि यस्य स तथा तम् / 4) A; B तनुते / 5) A drops तत्कर्म / 6) A रेणुम् / 7) A तनुसङ्गतपवनचलितं पवनेन चलितः तम् / ; B तनुसङ्गतपवनचलितम् / पवनेन चलितः / 8) A drops from आनीतः to तं तथा / 9) A commences with हे राधे !. 10) B भवति / 11) B मुखरं, मुखरं शब्दायमानम् /