________________ 50] सटिप्पणकम् [सर्गः५ भणतीत्यादि। भणति कविजयदेवे विरहिविलसितेन / मनसि रभसविभवे हरिरुदयतु सुकृतेन // 5 // तथा श्रोतृणां मनसि हृदये हरिः कृष्णः उदयतु / केन। सुकृतेन / गीतजनितपुण्येन / किम्भूते मनसि / 'चलितविभवे / चलितो वर्धितो विभवो यस्मिन् तत्तस्मिन् / अथवा रभसविभवे / रभसस्य विभवः आधिक्यं रभसः औत्सुक्यं तस्मिन् / कस्मिन् सति / कविजयदेवे भणति सति / कविश्चासौ जयदेवश्चेति तस्मिन् / केन हेतुना / विरहविलसितेन / विलसितं चेष्टितम् / प्रलोकेन पूरयति। पूर्वमित्यादि। पूर्व यत्र समं त्वया रतिपतेरासादिताः सिद्धय स्तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे पुनर्माधवः / ध्यायंस्त्वामनिशं जपन्नपि तवैवालापमन्त्रावली भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति // 2 // सखी वदति। हे राधे / माधवः कृष्णः पुनर्वाञ्छति / किम् / त्वत्कुचकुम्भनिर्भरपरीरम्भामृतम् / तव कुचकुम्भयोः परीरम्भो गाढालिङ्गनं स एवामृतं तत् / कस्मिन् स्थाने / तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे। निकुञ्जमेव मन्मथस्य कामस्य महातीर्थ अधिष्ठानस्थानम् / कथम् / पूर्व प्राक् / कुत्र। यत्र निकुञ्ज त्वया समम् आसादिता अनुभूताः / काः / रतिपतेः कामस्य सिद्धयः रतिक्रीडाः। किं कुर्वन् / अनिशं सर्वदैव त्वां ध्यायन् / न केवलं ध्यायन् / भूयः पुनरपि जपन् / काम् / तवैवालापमन्त्रावलीम् / आलापाः अन्योऽन्यं मिथ:कथनं त एव मन्त्रास्तेषां आवलिः पङ्क्तिः सा ताम् / गुर्जरीरागे एकतालीताले / रतिसुखसार इत्यादि। रतिसुखसारे गतमभिसारे मदनमनोहर्रवेषम् / - न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम् // 1 // धीरसमीरे यमुनातीरे वसति वने वनमाली / गोपीपीनपयोधरमर्दनचञ्चलकरयुगशाली // ध्रवपदम् // सखी वदति। हे नितम्बिनि राधिके / वनमाली नन्दसूनुः वने वसति / वर्तते / कुत्र / यमुनातीरे / कथम्भूते / धीरसमीरे। धीरो मन्दः समीरो वायुः ___ 1) P मनसिजरसविभवे; A मनसिजरभसविभवे / 2) A चलितविभवे / चलितो वर्धितो विभवो यस्मिन् तत्तस्मिन् / अथवा रभसस्य विभव आधिक्यं...। 3) A. B विरहिविलसितेन। 4) A गुर्जरोरागे / B drops गुर्जरोरागे एकतालीताले / 5) A, वेशम् /