________________ श्लोकः-२] गीतगोविन्दकाव्यम् [49 कस्मै। विरहिहृदयदलनाय / विरहिणां हृदयानि तेषां दलनं विदारणं तस्मै / खेदमेवाभिनयेन दर्शयति। दहतीत्यादि। देहति शिशिरमयूखे मरणमनुकरोति / / पतति मदनविशिखे विलपति विकलतरोऽति // 2 // हे सखि वनमाली मरणम् अनुकरोति / मृततुल्यो भवतीत्यर्थः। कस्मिन् सति / शिशिरमयूखे 'चन्द्रे दहति सति / शिशिराः शीतला मयूखा रश्मयो यस्य सः तस्मिन् / तथा विलपति परिदेवनं करोति / कस्मिन् सति / मदनविशिखे पतति सति / मदनस्य विशिस्त्रः शरः तस्मिन् / किम्भूतः *विकलतरोऽति / अतिशयेन विकलः विकलतरः / प्रकृष्टार्थे तरतमौ प्रत्ययौ भवतः। ध्वनतीत्यादि। ध्वनति मधुपसमूहे श्रवणमपिदधाति / मनसि चलितविरहे निशि निशि रुजमुपयाति // 3 // हे सखि आत्मनः श्रीकृष्णः श्रवणमपिदधाति / आच्छादयति। कस्मिन् सति / मधुपसमूहे ध्वनति कूजति सति / तथासौ निशि निशि प्रतिरात्रं रुजं सन्तापम् उपयाति गच्छति / कस्मिन् सति / मनसि चलितविरहे सति। चलितो वद्धितो विरहः खेदो यस्मिन् तत्तस्मिन् / विरहशब्देनात्र दुःखमुच्यते / वसतीत्यादि। वसति विपिनविताने त्यजति ललितधाम / लुठति धरणिशयने बहु विलपति तव नाम // 4 // अथासौ वसति निवासं करोति / कस्मिन् / 'विपिनविताने / विपिनस्य वितानो विस्तारः विस्तीर्णवने इत्यर्थः / ललितं सुन्दरं धाम गृहं त्यजति / तथासौ लुठति / कस्मिन् / धरणिशयने / धरण्येव शयनं तस्मिन् / तथा तव नाम बहु यथा स्यात्तथा विलपति जपति / अनेन किमुक्तम् / सर्वविषयं परित्यज्य रूपगन्धादिकं सततं त्वामनुध्यायतीत्यर्थः। 1) P. leaves out the stanza but gives the comment thereon. 2) B drops चन्द्रे / 3) B परिवेदनं। 4) B विकलीकरोति / B drops from अतिशयेन to भवतः। 5) A श्रीकृष्णः मधुपसमूहे शिलीमुखकदम्बे ध्वनति कूजति सति श्रवणं श्रोत्रन्द्रियम् अपिदधाति आच्छादयति तथा मनसि चलितविरहे सति निशि रात्रौ रुजम् उपयाति संताप प्राप्नोति / 6) B adds सति after ध्वनति / 7) A विपिनस्य वितानो विस्तारः विस्तीर्ण वनमित्यर्थः / 8) B drops जपति /