________________ पञ्चमः सर्गः। K20 साकाङक्षपुण्डरीकाक्षः / उत्तरगीतार्थ श्लोकेन सूचयति / अहमिहेत्यादि अहमिह निवसामि याहि राधा__ मनुनय मद्वचनेन चानयेथाः / इति मधुरिपुणा संखी नियुक्ता स्वयमिदमेत्य पुनर्जगाद राधाम् // 1 // माधवो वदति। हे सखि अहम् इह निकुञ्ज निवसामि / तिष्ठामि / त्वं याहि गच्छ। राधाम् अनुनय परिसान्त्वय / न केवलमनुनय / आनयेथाश्च / आनयस्व / केन / मद्वचनेन / "मम वचन मद्वचनं तेन / इति अमुना प्रकारेण मधुरिपुणा कृष्णेन सखी नियुक्ता प्रेरिता सती राधां प्रतिपद्य आगत्य स्वयमेव इदं वक्ष्यमाणं पुनर्जगाद उक्तवती। 'देशवराडीरागे पडिमठताले। वहतीत्यादि। वहति मलयसमीरे मदनमुपनिधाय स्फुटति कुसुमनिकरे विरहिहृदयदलनाय / तव विरहे वनमाली सखि सीदति // 1 // इति ध्रुवपदम् // हे सखि राधिके तव विरहे विश्लेषे वनमाली नन्दसूनुः सीदति खेदवान् वर्तते / तव विरह इति पुनरुक्तिः विरहस्य खेदाधिक्यजनकत्वमुद्योतनाय / कस्मिन् सति / मलयसमीरे चन्दनानिले वहति सति / किं कृत्वा / मदन कन्दर्पम् उप समीपे निधाय / मदनं सहायं विधाय / अथवा उपनिधाय उपहारं कृत्वा। जनानामुत्पादनायेत्यर्थः। तथा कुसुमनिकरे पुष्पसमूहे स्फुटति विकसति सति / 1) A drops it; B अहमिहेति / 2) B मधुना / 3) B सखि। 4)B स्वयमिहमेत्य / 5) B राधामुखेनय (?) सान्त्वय न केवलमनुनय / 6) B अमुना श्रीकृष्णेन सखि (? सखी) नियुक्ता प्रेरिता सति ( ? सती ) राधां प्रति आगत्य......र्जगाद उवाच / 7) A देशाखरागे विराडी: B गोडीरागण गीयते परिमठताले।