________________ श्लोकः 5 गीतगोविन्दकाव्यम् [47 किम्भूताम् / पुष्पिताग्राम् / पुष्पितमग्रं यस्याः सा तथा ताम् / वृत्तमपि पुष्पिताया। ष्टिव्याकुलगोकुलावनवैशादुद्धृत्य गोवर्धनं “बिभ्रद्गोपतनोस्तनोतु भवतः श्रेयांसि कंसद्विषः / दर्पणैव तदर्पिताधरतटी 'सिन्दूरमुद्राङ्कितो बाहुबल्लववल्लभाभिरधिकानन्दाच्चिरं चुम्बितः // 5 // कंसं द्वेष्टीति कंसद्विद तस्य कंसद्विषो बाहुर्भवतः श्रेयांसि शुभानि तनोतु विस्तारयतु / किम्भूतो बाहुः। गोवर्धनं बिभ्रत् धारयन् / किं कृत्वा / उद्धृत्य / कस्मात् / वृष्टिव्याकुलगोकुलावनवशात् प्रकुपितेन्द्रप्रयुक्तप्रचण्डवृष्टया व्याकुलं यद्गोकुलं तस्यावनं रक्षणं तस्य वशात् / किम्भूतस्य कंसद्विषः। गोपतनोः गोपस्येव तनुर्यस्य स तस्य / किम्भूतो बाहुः / गर्वेणैव तदर्पिताधरतटी तस्याः सिन्दूरं तस्य मुद्रा तया अङ्कितः चिह्नितः वल्लवानां गोपानां वल्लभाभिरङ्गनाभिः अधिकानन्दात् चिरं चुम्बितः। इति श्रीगीतगोविन्दटीकायां स्निग्धमाधवो नाम चतुर्थः सर्गः 1) B drops वृत्तमपि पुष्पिताग्रा, P adds स्निग्धः स्नेहवान् माधवो यस्मिन् सर्गे / इति गीतगोविन्दटीकायां स्निग्धमाधवो नाम चतुर्थः सर्गः; Breads स्निग्धः सहवान् (1 स्नेहवान् ) माधवो यस्मिन् सर्गः (? सर्गे) इति श्रीगीतगोविन्दे माहा( महा )काव्ये स्निग्धमाधवो नाम चतुर्थसगै (१°सर्गः)। 2) P contains neither this stanza nor the gloss thereon B gives merely the text of the stanza. 3) B °रसादुद्धृत्य / 4) B बिभ्रदल्लवसुदभिरधिन्कानन्दाच्चिरं चुम्बति / 5) B °सिन्दुरमुद्रो(द्रां) किते 6) B बाहुर्गोपतनो तनौतु (? °तनोस्तनोतु) भवता श्रेयांसि कंसद्विषः //