________________ 46 ] सटिप्पणकम् [ सर्गः४ कन्दर्पत्यादि। कन्दर्पज्वरसंज्वरातुरतनोराश्चर्यमस्याश्चिरं ... चेतश्चन्दनंचन्द्रमाकमलिनीचिन्तासु संताम्यति / किन्तु क्लान्तिवशेन शीतलतनु त्वामेकमेव प्रियं ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं माणिति // 3 // अहो आश्चर्यम् / अस्या राधिकायाश्चेतः चित्तं चिरकालं संभ्राम्यति / सम्यक भ्रमति / कासु। 'चन्दनचन्द्रमाकमलिनीचिन्तासु चन्दनं च चन्द्रमाश्च कमलिनी च तासां चिन्ता स्मरणं सततं, तासु / किम्भूतायाः। कन्दर्पज्वरसंज्वराकुलतनोः कन्दर्पस्य ज्वरः तेन संज्वरस्तापः तेनाकुला व्याकुला तनुर्यस्याः सा तथा तस्याः / यद्येवं तर्हि कथं न म्रियत इत्याह / किन्तु क्लान्तिवशेन ग्लानिवशेन क्षीणा कथं कथमपि अतिकष्टेन प्राणिति जीवति / 10किं कुर्वती 11रहसि स्थिता। एकं त्वामेव प्राणवल्लभं ध्यायन्ती / किम्भूतम् / शीतल. तरम् अतिशयेन शीतलम् / क्षणमपीत्यादि। क्षणमपि विरहः पुरा न सेहे नयनॅनिमीलनखिन्नया यया ते / श्वसिति कथमसौ रसालशाखां चिरविरहेण विलोक्य पुष्पिताग्राम् // 4 // __14यया राधिकया पुरा पूर्वकाले 1क्षणमपि क्षणमात्रमपि तव विरहो विश्लेषः। न सेहे 16न सोढः / किम्भूतया। नयन गनिमीलनखिन्नया। नयनयोनिमीलन निमेषः तेन खिन्नया। इदानीमसौ 18राधिका कथं 19श्वसिति प्राणधारणं कथं करोति / २०किं कृत्वा / चिरविरहेण रसालशाखां चूतशाखां विलोक्य / __1) B संज(१ज्व) राकुल° / 2) P °चन्द्रमाःकिमलिनी०। 3) A °तरं। 4) A, B त्वामेवमेकं / 5) B ध्यायन्ति / 6) B भ्राम्यति / सम्यति(?) / सम्यक् भ्रामति। 7) B चन्द्रमाचन्दनं कमलिनोचिंतासु चन्दनं च चन्द्रमाश्च कमलिनी चिन्ता तासां चिन्ता च स्मरणं सततं तासु / 8) P मृगयत.। 9) B drops ग्लानिवशेन / 10) B d:ops किं कुर्वती / 11) B रहसी स्थिता / B drops from एकं......10 शीतलम् / 12) B °निमिलितखिन्नया तथा ते। 13) B पुष्पिता। 14)B drops यया / 15) p drops क्षणमपि; A drops क्षणमात्रमपि। 16) B drops न सोढः / 17)B °निमीलित। 18 Bराधा / 19) B स्वपिति। 20) B drops from किं to विलोक्य /