________________ 42] सटिप्पणकम् [ सर्गः 4 'आवासो विपिनायते' इत्यादि / आवासो विपिनायते प्रियसखीमालापि जालायते तापोऽपि श्वसितेन दावदहनज्वालाकलापायते / सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं कन्दोऽपि यमायते विरचयन् शार्दूलविक्रीडितम् // 10 // हे प्रिय कृष्ण / अस्या राधिकायाः आवासः क्रीडाहय विपिनायते कण्टकाक्रान्तारण्यमिवाचरति / तथा प्रियसखीमालापि इष्टसहचरीपङ्क्तिरपि जालायते जालमिवाचरति / * आनायः पुंसि जालं स्यात्सणसूत्रं पवित्रकम्' इत्यमरः। प्रिया चासौ सनी चेति तस्या माला / श्वसितेन सह तापोऽपि दावदहनज्वालाकलापायते / दावदहनो वनाग्निः तस्य ज्वाला तस्याः कलापः समूहः शोकदायकः भयङ्करो वा तद्वदाचरतीत्यर्थः / तथा हन्तेति विषादे कष्टे वा / हे स्वामिन् सा राधा हरिणीरूपायते / हरिणीरूपमिवाचरति / चिन्तातिवर्तते। केन कृत्वा। त्वद्विरहेण / तव विरहो वियोगस्तेन / हा कष्टम् / कथमेतद्युज्यते। 'तथा विषयत्वात्तस्याः किं कन्दोऽपि मदनोऽपि यमायते / यम इवाचरति / अथवा हा कष्टम् / सा हरिणीरूपायते / अन्यच्च / कन्दर्पोऽपि यमायते / किं कुर्वन् / शार्दूलविक्रीडितं विरचयन् / शार्दूलो व्याघ्रः व्याघ्रवद्भयं जनयन् / यमवद् दुःखमातनोतीत्यर्थः। वृत्तमपि शार्दूलविक्रीडितं नाम / देशाख्यरागे। एकतालीताले / स्तनेत्यादि। स्तनविनिहितमपि हारमुदारम् / सा मनुते कृशतनुरतिभारम् / राधिका विरहे तव केशव // ध्रुवपदम् // 1 // हे केशव / सा राधिका तव विरहे विश्लेषे कृशतनुर्दुर्बला। स्तने विनिहितं कुचमण्डले आरोपितं तम् उदारं सुन्दरं हारं मुक्तालङ्कारं भारमिव मनुते / कलयति जानाति / कृशा तनुर्यस्याः सा तथा / स्तनयोर्विनिहितो न्यस्तस्तम् / सरसमसृणमित्यादि। सरसमसृणमपि मलयजपङ्कम् / पश्यति विषमिव वपुषि सशङ्कम् // 2 // 1) B ज्वालायते। 2) A, B कण्टकारण्यमिवाचरति / 3) B drops from आनायः to इत्यमरः / 4) P, A स्थानसूत्रं / 5) A तथा हन्ते ( ? हन्तेति ) विषादे कष्टे च / B तथा हन्त खेदे कष्टे वा / 6) B कथमेतत्प्रयुज्यते / 7) A कथाविषयत्वात्, B तथा विषमत्वा ( ? विषयत्वात् ) / 8) B drops from वृत्तमपि to नाम / 9) P देशाख रागे। एकतालोताले; A देशाखरागे / तिसारकताले; B देशाखरागेण गीयते / एकतालीताले।