________________ लोकः 9] गीतगोविन्दकाव्यम् [41 प्रतिपदमित्यादि / प्रतिपदमिदमपि निगदति माधव तव चरणे पतिताहम् / त्वयि विमुखे मयि सपदि सुधानिधिरपि तेनुते तनुदाहम् // 7 // सा राधिका प्रतिपदं प्रतिक्षणं निगदति वक्ति / किम् इदम् / इदमिति ब्रूते / सपदि तत्क्षणादेव / सुधानिधिरपि चन्द्रोऽपि तनुदाहं देहसंतापं तनुते विस्तारयति / अनेन किमुक्तम् / स्वामिनि विपरीते सति सज्जनोऽपि दुःखदायको भवतीत्यर्थः। ध्यानलयेनेत्यादि। ध्यानलयेन पुरः परिकल्प्य भवन्तमतीव दुरापम् / विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् // 8 // सा राधिका पुरोऽग्रे ध्यानलयेन (ध्यान)योगेन दृष्टा भवन्तम् / परिकल्प्य संमुखं कृत्वा / अतीव दुरापं मत्वा विलपति / शोचति / ध्यान चित्तवृत्तिनिरोधः, तस्य लयः ऐकाग्रयं तेन / अतीव दुरापम् / अतिशयेन दुष्प्राप्यम् / न केवलं विलपति / हसति / मां "सुरूपां त्यक्त्वाऽन्यामु पसरसीति हास्यं करोति / अथानन्तरं मम प्रेमादिकं न स्मरसीति विषीदति खेदं विदधाति / अथवा यद्यहं सौभाग्यवती भवामि तर्हि कथं मां 1°हरिः परिहरतीति"रोदिति / अश्रुमुखीभवति। 1 चञ्चति शनैः शनैर्गच्छति। 18त्वदर्शनार्थ इतस्ततो व्रजतीत्यर्थः / मम गुणातिशयं स्मृत्वा स्वयमेव हरिरागमिष्यतीति तापं मुञ्चति / संतापं परित्यजतीत्यर्थः। श्रीजयदेवभणितमिदमधिकं यदि मनसा नटनीयम् / हरिविरहाकुलवल्लवयुवतिसखीवचनं पठनीयम् // 9 // - इदं गीतम् / श्रीजयदेवभणितम् अधिकं यथा स्यात्तथा मनसा हृदयेन नटनीयमस्ति / तर्हि भक्तजनैः पठनीयम् / किं हरिविरहाकुलबल्लवयुवतिसखी। तस्याः वचनम् / शेषमर्थ श्लोकेन संपादयति / 1) A B मिति / 2) B कुरुते। 3) A इदमिति किम् / माधव तव चरणे पतिता। B किमितमिति(?)ब्रूते सपदि तत्क्षणमेव / 4) B दुःखाय / 5) P चुम्बति, A पंचति / 6) A कृत्वा। 7) P सरूपां / 8)B मुक्ता (? मुक्त्वा ) / 9) P °नुपसरसीति, A मुपसर्पतीति / 10) A मुरारिः / 11) P, B रोदति / 12) P अञ्चति, A वञ्चति / 13) B drops this sentence.