________________ 40] सटिप्पणकम् [ सर्गः 4 वहति चेत्यादि। वहति च गलितविलोचनजलधरमाननकमलमुदारम् / विधुमिव विकटविधुन्तुददन्त'दलनगलितामृतधारम् // 5 // सा राधिका आननकमलं मुखपद्मं च वहति धारयति / 'वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्' इत्यमरः। तत्किम्भूतम् / गलितविलोचनजलधरम् / विलोचने एव जलधरौ विलोचनजलधरौ गलितौ वृष्टौ विलोचनजलधरौ यस्मिन् तत्तथा / अथवा विलोचनयोर्जलं गलितं च तत् विलोचनजलं चेति तत् धारयतीति तत्तथा / तत्किमिव / विधुमिव / चन्द्रमिव / किम्भूतं विधुम् / विकटविधुन्तुददन्तदलनगलितामृतधारम् / विधुं चन्द्रं तुदति व्यथयतीति विधुन्तुदो राहुः / अलुप्तकर्मपदसमासः / तस्य दन्ताः विकटाः भयङ्कराः उन्नता नता विधुन्तुदस्य दन्ताः तैर्दलनं पीडनम् / तेन गलिता अमृतधारा यस्मात् तत्तथा। अथवा विकटो भयङ्करः स चासौ विधुन्तुदो राहुश्चेति। तस्य दन्ताः तैर्दलनं पीडनं तस्माद्गलिता अमृतधारा यस्मिन् सः तं तथा / अत्र कृष्णविरहोत्पन्नदुःखमेव राहुः। विलिखतीत्यादि। 'विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतम् / प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम् // 6 // सा राधा भवन्तं प्रेयांसं कुरङ्गमदेन कस्तूरिकया विलिखति / क्व। रहसि एकान्ते। कुरङ्गस्य मदः कुरङ्गमदस्तेन। 'मृगे कुरङ्गवातायुहरिणाजिनयोनयः' इत्यमरः। ''कथम्भूतं भवन्तम् / असमशरभूतम्। "कन्दर्पतुल्यम्। 'असमा विषमाः पञ्चशरा यस्य स तथा। किं कृत्वा विलिखति / मकर मत्स्य कामवाहनम14 धो विनिधाय / अधस्तादारोप्य संस्थाप्य / 15न केवलं मकरमधो विनिधाय / करे नवचूतं रसालकुसुमं शरं विनिधाय / एतत्कृत्वा प्रणमति नमस्कारं करोति। 16 अनेन किमुक्तम् / चित्ररूपिणं भवन्तमवलोक्य प्राणान् धारयतीत्यर्थः। 1) B deg दलित° 2) B drops from वक्त्रास्ये to तत् / 3) A तत्तथा। अथवा जलभरमिति पाठः। तत्र विगलितो विलोचनाभ्यां जलभरो यस्मिन् तत् / / B तथा / अथा (? अथवा) विलोचनयोर्जलं च तत् विलोच(न)जलं चेतद्धारपतित(?) तथा। 4) A, B drop अलुप्तकर्मपदसमासः। 5) B विकरालाः। 6) A अथवा विकटेति विधुन्तुदस्य विशेषणं कृष्णविरहोप्तन्न दुःखमेव राहुः / B drops from अथवा to °दुःखमेव राहुः / 7) B विलखति। 8) B नूतम् / 9) A drops प्रेयांस; B प्रेमसं ( ? प्रेयांसं)। 10) B drops from कुरङ्गस्य to इत्यमरः। 11) B किम्भूतं / 12) B कामतुल्यम् / 13) B drops from असमा to स तथा / 14) B मके। 15) A न केवलमेतत् किं तु करे...; B [न] केवल मकर [म]धोनिधाय करे नवं नूतनं रसालकुसुमं...... 16) B drops from अनेन to धारयतीत्यर्थः।