________________ प्रलोकः 4] गीतगोविन्दकाव्यम् [ 39 दीना दुःखिता लीना शरणागता। कस्मिन् / त्वयि / कया। भावनया / हृदिस्थ त्वद्रूपध्यानेन / कस्मादिव / मनसिजविशिखभयादिव / मनसि जातः मनसिजः कन्दपः / अलुक्समासोऽयम् / तस्य विशिखः। शरः तस्माद्भयम् / तस्मादिव / तत्तथा। अविरलेत्यादि। अविरलनिपतितमदनशरादिव भवदवनाय विशालम् / स्वहृदयमर्मणि वर्म करोति सजलनलिनीदलजालम् // 3 // सा सजलनलिनीदलजालं वर्म कवचं करोति / जलेन सह वर्तमानानि सजलानि च तानि नलिनीदलानि चेति कर्मधारयः समासः / तेषां जालं समूहः यत्र तत् / कस्मिन् / स्वहृदयमर्मणि / स्वहृदयमेव मर्म जीवनस्थानम् / तस्मिन् / किम्भूतम् / शविालं विस्तीर्णम् / कस्मै। भवदवनाय / तादर्थ्य चतुर्थी / भवतोऽवनं रक्षणं तस्मै / भयहेतुमाह / कस्मात् / अविरलनिपतितमदनशरात् / अविरलो निपतितो मदनशरस्तस्मात् / अनेन किमुक्तम् / प्रयोजनमाह / संतापयुक्तापि राधिका स्वहृदयस्थं कृष्णं सततं पश्यति जानातीत्यर्थः। कुसुमेत्यादि। कुसुमविशिखशरतल्पमनल्पविलासकलाकमनीयम् / . व्रतमिव तव परिरम्भसुखाय करोति कुसुमशयनीयम् // 4 // 'तथा च। कुसुमशयनीयं पुष्पशयनीयं पुष्पशय्यां करोति / किम्भूतं तत् / "कुसुमविशिखशरतल्पमनल्पविलासकलाकमनीयम् / अनल्पा या विलासस्य कलाः ताभिः कमनीयं मनोहरम् / "तत्किमिव / व्रतमिव / कस्मै। 'तव परिरम्भ. सुखाय। परिरम्भणस्यालिङ्गनस्य सुखं तस्मै / अन्योऽपि यः कश्चिदभीष्टफलाकाझी भवति सोऽपि दुष्कर व्रतादिकं करोति / अनेन किमुक्तम् / नारायणविरहसंतापात् कुसुमशयनीयेऽपि दुःखं न जहातीत्यर्थः / - 1) B शरणागततस्मि त्वपाकपा (?) भावनया हृदि त्वद्रूपनेध्योन (? त्वद्रूपध्यानेन) / 2) B मनसिजस्य विशिखा छरः ( ? शरः ) तस्माद्भयम् / 3) A तस्य विशिखाः शरास्तेभ्यो भयं तस्मादिव 4) B drops तादर्थं चतुर्थी / 5) A drops from अनेन to प्रयोजनमाह / 6) A संतापयुक्तापि राधिका कृष्णं सततं पश्यतीत्यर्थः / ; B drops from संताप to जानातीत्यर्थः / 7) A तथा राधा / 8) A, B drop पुष्पशयनीय 9) A कुसुमशरस्य ये शराः तेषां तल्पः शय्या बाणशय्यामित्यर्थः / 10) A किमिव; B तं कमिव कस्मै। 11) P तत्परिरम्भसुखाय। 12) B drops व्रतादि। 13) B drops from अनेन to जहातीत्यर्थः /