________________ चतुर्थः सर्गः / स्निग्धमाधवः / गीतार्थ श्लोकेन सूचयति यमुनातीरेत्यादि / यमुनातीरवानीरनिकुब्जे मन्दमास्थितम् / प्राह प्रेमभरोभ्रान्तं माधवं राधिकासखी // 1 // ___ राधिकासखी गीतार्थ श्लोकेन प्राह। माधवं प्रत्याह / का। राधिकासखी। राधिकायाः सखी। किम्भूतम् / मन्दं यथा स्यात्तथा स्थितम् / कुत्र / यमुनातीरवानीरनिकुञ्ज / वानीरस्य वेतसस्य निकुञ्ज यमुनातीरे वानीरनिकुञ्ज तस्मिन् / किम्भूतम् / प्रेमोभ्रान्तम् / प्रेम प्रीतिः तस्य भरः आधिक्यम् / तेन 'उद्भ्रान्तो विह्वलः। कानडरागे एकतालीताले यदेव प्राह तदर्शयति निन्दति चन्दनेत्यादि / निन्दति चन्दनमिन्दुकिरणमनु विन्दति खेदमधीरम् / व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् // 1 // सा विरहे तव दीना। माधव मनसिजविशिखभयादिव भावनया त्वयि लीना।ध्रुवपदम् // 2 // हे माधव तव विरहे वियोगे तनुगतं चन्दनं निन्दति / दहनमिव दूषयति / अनु तदनन्तरं इन्दुकिरणं च निन्दति / 'यतोऽधीरा खेदं क्लेश विन्दति लभते / तथा च / मलयसमीरमपि गरलमिव कलयति मनुते / मलयस्य मलयाचलस्य समीरः पवनस्तम् / गरलं विषमिव तुल्यम् / केन / व्यालनिलयमिलनेन / व्यालानां उरगानां निलया आश्रयाश्चन्दनतरवः / तैः सह मिलनं संस्पर्शः तेन / अतो ___ 1) A कालिन्दीतटवेतसकुञ्ज मन्दं यथा स्यात्तथा स्थितं प्रेमोद्धान्तं माधवं प्रति राधिकासखी प्राह। 2) P भ्रान्तो / 3) A कर्णाटरागे / ; B करणाटरागेण गीयते / एकताले / 4) B किरणमनु वि(वि)दति खेदमधी(र) चन्दनमिदुरं (?) / व्यालनिलयमिलनेन गलप्तिव (? गरलमिव) / 5) B adds केशव before सा / 6) B विसि ( ? विशिख ) / 7) A, B यतो धीर खेदं क्लेसं(शं) विदति लभते / 8) B मलयस्य मलयाचलस्यसमीरः पवनः त गरल(? मलय )समीरमपि।