________________ श्लोकः 5] गीतगोविन्दकाव्यम् [43 सा राधा वपुषि स्वदेहे लग्नं मलयजपङ्क चन्दनं विषं कालकूटमिव पश्यति / किम्भूतम् / सरसमसृणमपि / सह रसेन वर्तत इति सरसः। महणः प्रलक्ष्णः घृष्टः / कथं यथा स्यात् तथा। सशङ्ख शङ्कया सह वर्तमानं यथा भवति। श्वसितेत्यादि / श्वसितवपनमनुपमपरिणाहम् / मदनदहनमिव वहति सदाहम् // 3 // ___ सा राधिका सदाहं यथा भवति तथा श्वसितं पवनं वहति / श्वसितमेव पवनस्तम् / कमिव / मदनदहनमिव / कामाग्निमिव / किम्भूतम् / अनुपमपरि। णाहं न विद्यते उपमा दृष्टान्तो यस्य स तथा अनुपमः परिणाहो विशालता यस्य स तथा। .. दिशि दिशीत्यादि। दिशि दिशि किरति सजलकणजालम् / . नयननलिनमिव विगलितनालम् // 4 // सा राधा नयननलिनं लोचनकमल दिशि दिशि किरति क्षिपति / किम्भूतम्। सजलकणजालम् / सह जलकणजालेन वर्तत इति स तथा। ननु पुनः किम्भूतम् / विगलितं नालं यस्य स . तथा। ननु प्रतिदिशं रुदती मृगयतीत्यर्थः / अनेन किमुक्तम् / भवतो लाभाय कज्जलाभावान्नयनकमलसजलकुसुमैदिग्देवता मर्चयति / अयमाशयः। नयनविषयमित्यादि। नयनविषयमपि किशलयतल्पम् / कलयति विहितहुताशविकल्पम् // 5 // सा राधा किशलयतल्पं हुताशनकल्पं अग्निमिव कलयति / मनुते / किशलयं 1 नवं पल्लघम् / तस्य तल्पं 11शयनं तत्तथा / किम्भूतम् / विहितः कृतश्चासौ हुताशनविकल्पश्चेति 12 बहुव्रीहि [ ? कर्मधारय समासः। शीतलत्वाद(? किश. लयताघ्रत्वाद)ग्निसममित्यर्थः / किम्भूतम् / नयनविषयमपि। नयनयोर्विषयं गोचरम् / अग्रे वर्तमानमपि। अनेन किमुक्तम् / सुखाभावे शीतलकोमल1 स्याप्यालोकनं न 14करोतीत्याशयः / ___1) A मसृणः सूक्ष्मघृष्टः / B मसृणः सूक्ष्मचेष्टा (1) / 2) P- मदनबाणमिव / 3) B दृष्टान्तो / 4) B drops ननु / 5) A तत्तथा / 6) A मर्चयतीत्ययमाशयः / 7) P ननयति (?) / 8) A, B हुताशनकल्प / 9)B राधिका / 10) A, B नवपल्लवं / 11) B शयनीयं / 12) drops बहुव्रीहिसमासः। 13) A shows in the margin शय्या to beread in place of स्याप्या; B शय्यावलोकन। 14) B करोतीत्यमा (? त्ययमा )शयः /