________________ [35 श्लोकः 3] गीतगोविन्दकाव्यम् मूर्छाम् इतः गतः मूच्छितः स चासौ जनश्चेति तस्य घातो मारणं तेन / तव कथं भूञ्छितत्वं तदाह / तदारभ्य / अथापि मनागपि किमपि मनो हृदयं न संधुक्षते / स्वास्थ्य न भजते / विरहपीडादिकं न मुञ्चति / किम्भूतम् / स्मरशरवत् कामबाणवत् / उदश्चन्तः प्रेवन्तो ये कटाक्षा एव आशुगाः तेषां श्रेणी पङ्क्तिः परम्परा तया जर्जरितं खिन्नं निःसारम् / कस्याः कटाक्षाशुगाः। तस्याः राधिकाया एव / कथम्भूतायाः। मृगीदृशः "मृग्या इव दृशौ यस्यास्तस्याः। उपालम्भनं पुनराह भूचाप इत्यादि / भ्रूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां श्यामात्मा कुटिलः करोतु कबरीभारोऽपि मारोद्यमम् / मोहं तावदयं च तन्वि तनुतां बिम्बाधरो रागवान् सद्वृत्तः स्तनमण्डलस्तव कथं प्राणैर्मम क्रीडति // 3 // हे राधे निर्मातु सम्पादयतु। 'कः कटाक्षविशिखः। कटाक्ष एव विशिखः बाणः। काम् मर्मव्यथाम् / मर्मणि स्थाने व्यथाम् / किम्भूतः भ्रचापे निहितः निक्षिप्तः / तथा कबरीभारोऽपि करोतु / कबरी 1°केशपाशः स एव 11भारः गुरुत्वात् / कम् / मारोद्यमम् ।12मारणं मोहः तस्य उद्यमस्तम् / अथवा / 13मारः कामः तस्योद्यमस्तम् / कथम्भूतः / श्यामात्मा कृष्णवर्णः / न केवलं श्यामात्मा कुटिलश्च / 14वक्रिमायुक्तः। 15 एतस्य मारणं युक्तं तथा / तावत् / अयं विम्बाधरः तनुताम् / कम् / मोहम् अज्ञानम् / कथम्भूतः। रागवान् / रागोऽस्यास्तीति परिणामरक्तः। एतस्यापि युक्तम् / 16कुतस्तवेयं प्रतिपत्तिः। तत्राह / तवाय स्तनमण्डलोऽपि मम प्राणैः समं कथं क्रीडति / 1'प्राणान् ग्रहीतुं कथमिच्छति / किम्भूतः / सवृत्तः / सत्साधु वृत्त वर्तुलत्वं 18यस्य स तथा। 1 वृत्तमिति व्यवहारेऽपि / शब्दच्छलेन 2°आचक्ष्यते / सदाचारोऽप्यनाचार इत्यभिप्रायः। 1) B drops this line. 2) A प्राप्तः / 3) B नो हृदयं / 4) B भजते / 5) A drops निःसारं; B निःसार (! निःसारं)। 6) B कटाक्षेपा (? कटाक्षा एव) आगाः / 7) P मृग्या एव दृशः, मृग्या एव दृशौ या सा तथा (?) / B reads this sentence as मृगोदृशो यस्याः सा तथा / उषा( ? पा)लंभनं पुनराह / 8) A places निर्मातु संपायितु (? सम्पादयतु ) / afterमर्मणि स्थाने व्यथाम् / 9) A, B drop कः / कटाक्षविशिखः / 10) B केशः (1) 11) B drops गुरुत्वात् / 12) B drops मारणं मोहः तस्य उद्यमस्तम् / अथवा। 13) B मारस्य कामस्य उद्यमः [ तम् ] / 14) B विक्रम(?विक्रमा)युक्तः / 15) P एतस्य मरण; B dropsfrom एतस्य मारणं to परिणामरक्तः। 16) B कुतः स्त(त). स्येयं प्रतिपती (? प्रतिपत्ति )स्तत्राह / 17) B प्राणानां हितुमिछतीति (? प्राणान् ग्रहीतुमिच्छतीति ) / 18) B drops य / 19) B drops from वृत्तमिति to स्वमनोगतमाह / 20) A याचक्षते /