________________ 36] सटिप्पणकम् . [ सर्गः 3 श्रीकृष्णः स्वमनोगतमाह तानि स्पर्शेत्यादि / तानि स्पर्शसुखानि ते च तरलाः स्निग्धा दृशोर्विभ्रमा स्तद्वक्त्राम्बुजसौरभं स च सुधास्यन्दी गिरां वक्रिमा / सा बिम्बाधरमाधुरीति विषयासङ्गेऽपि चेन्मानसं। __ तस्यां लग्नसमाधि हन्त विरहव्याधिः कथं वर्धते // 4 // यदि राधिकायां मानसं मनः लग्नसमाधि विषयासङ्गे सत्यपि / हन्तेति हर्षविषादयोः तर्हि 1विरहस्य व्याधिः पीडा। कथं विषयासङ्गः / इति अनेन प्रकारेण / अधुनापि / शोर्नेत्रयोर्विभ्रमाः विलासाः स्वयमेव तज्जातीया एव / किम्भूताः।तरलाःस्निग्धाः इतरलाश्च ते स्निग्धाश्चेति। यदत्र स्वभावसंप्रत्ययः। वक्त्राम्बुजसौरभं सौगन्ध्यं येन स च / अथापि / गिरां वाचां वक्रिमा वक्रभाव: स एव वर्तते / सुधास्यन्दी सुधां स्यन्दितुं शीलमस्येति स तथा / यास्वादिता सपदि बिम्बाधरमाधुरी सैव तज्जाजीयैवास्वाद्यते / "मधुरस्य भावः माधुर्यम् / बिम्बाधरस्य माधुरी सा इति विशेषा ज्ञेया। भूपल्लवेत्यादि / भ्रूपल्लवं धनुरपाङ्गतरङ्गितानि बाणा गुणः श्रवणपालिरिति स्मरेण / तस्यामनङ्गजयजङ्गमदेवतायामस्त्राणि निर्जितजगन्ति किमर्पितानि // 5 // इति श्रीगीतगोविन्दे मुग्धमधुसूदनो नाम तृतीयः सर्गः / तस्यां राधिकायां स्मरेण कन्दर्पण स्वास्त्राणि अर्पितानि किमिति वितर्कः। 1°कानि अस्त्राणि। तानि11कानि / भ्रूपल्लवं धनुः। अपाङ्गतरङ्गितानि बाणाः। अपाङ्गस्य नेत्रान्तस्य 1 तरङ्गितानि कटाक्षाः। श्रवणपालिः गुणः। एतानि किम्भू 1) B विहरस्य (१विरहस्य)। 2) B नेत्रयो ट (ई) शोविलासाः स्वतमेव (? स्वयमेव) जतज्जातिया (? तज्जातीया) एव / 3) B तरलाश्चेति / 4) A... संप्रत्ययाः। B drops from यदत्र to स च 5) P सुधा स्यंदितु...A सुधां स्यन्दितुं शीतल(? शील)मस्येति...; B सुधा स्यन्दितुं शीलमस्ये स तथा / 6) A drops स्वादिता सपदि बिम्बाधरमाधुरी, B यास्त्रादित (1 यास्वादिता) सपदि किं(बि)बाधरमाधुरो सैव तैर्जातीभावः(? तज्जातीयैव ) / 7) A मधुरभावो माधुरी; B drops from मधुरस्य...to ज्ञेया। 8) P. स्वास्ने; B स्वहस्तेन / 9) A वितर्क (6), B वितकं (? वितर्कः) 10) P लिका (? कानि)। 11) Aतदाह, B ता कामि (1 तानि कानि) / 12) A निरीक्षितानि / 13) A नेत्रप्रान्तस्य /