________________ 34] सटिप्पणकम् [सर्गः३ इदं गीतम् / हरेः कृष्णस्य प्रवणेन भक्तिनस्रेण यत्तेन जयदेवकेन कविना वर्णितम् / किम्भूतेन / 'तिन्दुबिल्वसमुद्रसंभवरोहिणीरमणेन / तिन्दुबिल्वं नाम नगरम् / तदेव समुद्रः तत्र संभवः उत्पत्तिर्यस्य स तथा स चासौ रोहिणीरमणश्चेति / अनेन तस्य चन्द्रोपमा / *गीतापेक्षार्थ विरहमाह हृदि बिशलतेति / हृदि बिशलताहारो नायं भुजङ्गमनायकः कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः। मलयजरजो नेदं भस्म प्रियारहिते मयि / प्रहर न हरभ्रान्त्यानङ्ग क्रुधा किमु धावसि // 1 // हे अनङ्ग कन्दर्प / हरभ्रान्त्या महादेवोऽयमिति भ्रमेण प्रियारहिते "कान्तावियुक्ते मयि 'विषये न प्रहर प्रहारं मा कुरु / क्रुधा कोपेन। किमु धावसि शीघ्रमागच्छसि / मम हृदि बिशलताहारः मृणाललतिकास्रक् / अयं भुजङ्गमनायको वासुकिर्न भवति बिशलतायाः हारः / कण्ठे कुवलयदलश्रेणी कुवलयानां नीलोत्पलानां दलानि कुसुमानि तेषां श्रेणी मालेत्यर्थः / सा प्रसिद्धा / गरलद्युतिविषशोभा न भवति। 'ममाङ्गे मलयजस्य चन्दनस्य रजो रेणुरिदं दृश्यते / भस्म न भवति। 1°एतत्कोमलजलाबिशलताहारादिकं सर्व विरह तापापनोदाय सर्वाङ्ग न्यस्तमारोपितम् / एतद्राधाप्रियारहिते एकाकिनि मयि न प्रहर। पाणावित्यादि / पाणौ मा कुरु चूतसायकममुं मा चापमारोपय क्रीडानिर्जितविश्व मूञ्छितजनाघातेन किं पौरुषम् / तस्या एव मृगीदृशो मनसिजप्रेक्ष(?ख)त्कटाक्षाशुग श्रेणीजर्जरितं मनागपि मनो नाद्यापि संधुक्षते // 2 // हे मनसिज काम / पाणौ हस्ते चूतसायकम् आम्रपुष्पवाणं मा कुरु / किञ्च। अमुं चापं कार्मुकं मा रोपय मा सज्जीकुरु / 18 अ-मा-नो-ना-निषेधे विस्तरः / 15को हेतुस्तदाह / हे क्रीडानिर्जितविश्व / क्रीडया निर्जितं विश्वं 14संसारो येन सः तस्य सम्बोधने / मूञ्छितजनाघातेन 15मारणेन पौरुषं किम् / 1) A हरेः प्रवणेन कृष्णस्य नम्रेण जयदेवकेन; B हरेः कृष्णस्य प्रवणेनस्ताननेणय तेन (? प्रवणेन तेन नम्रग यत्ते जयदेवकेन ) / 2) B किन्दु / 3) B किन्दुबिल्वनाम नगरम् / 4) B गीतापेक्षार्थविरहमाह / 5) B drops महादेवोऽयमिति भ्रमेण / 6) P drops कान्तावियुक्ते / 7) B drops विषये / 8) B नीलोत्पलदलानां श्रेणी. 9) B समांगे (?ममाझे) 10) B drops from एतत्... to न प्रहर / P adds कोमल between जलाई and बिशलता / 11 ) P मृगीदृशः स्मरशरोदञ्चत्कटाक्षानल-ज्वालाजर्जरितं / 12) A, B drop this line. 13) B drops this sentence. 14) P dari; A drops संसारो / 15) A drops मारणेन पौरुषं किम् / B drops मारणेन /