________________ म्लोकः 4] गीतगोविन्दकाव्यम् [33 हृदयस्थां राधिका अनुनयन्नाह तामित्यादि। तामहं हृदि सङ्गतामनिशं भृशं रमयामि / किं वनेऽनुसरामि तामिह किं वृथा विलपामि // 4 // तां राधां भृशमत्यर्थ रमयामि क्रीडयामि / किम्भूताम् / हृदि संगताम् / हृदये संगतां संलग्नाम् / कथम् / अनिश वारंवारम् / किमिति वितर्के / पने वनमध्ये / अनुसरामि / अनुगच्छामि / किमिह निकुञ्ज वृथा विलपामि / मिथ्या परिदेवनं करोमि। किं वितर्के परिप्रश्ने क्षेपे निन्दाप्रकाशयोरिति विस्तरः / तन्वीत्यादि / तन्वि खिन्नमसूयया हृदयं तवाकलयामि / तन वेनि कुतो गतासि न तेन तेऽनुनयामि // 5 // हे तन्वि सूक्ष्मे राधे / तव हृदयं अहम् आकलयामि जानामि। किम्भूतम् / खिन्नं खेदयुक्तम् / कया / असूयया ईर्ष्याया। कुतः कुत्र त्वं गतासि / तन्न वेनि न जानामि / तेन कारणेन ते तुभ्यं नानुनयामि परिसान्त्वनं करोमि / दृश्यसेत्यादि / दृश्यसे पुरतो गतागतमेव मे विदधासि / किं पुरेव ससंभ्रमं परिरम्भणं न ददासि // 6 // हे राधे पुरतोऽग्रतः / दृश्यसे अवलोक्यसे / कस्य / मम / किं नु गता. गतं गमनागमनम् / विदधासि करोषि / किमिति पुरेव पूर्वानुभूतमिव / परिरम्भणमालिङ्गनं न ददासि / किम्भूतम् / ससंभ्रंमं सह संभ्रमेण वर्तत इति / क्षम्यतामिति। क्षम्यतामपरं कदापि तवेदृशं न करोमि / देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि // 7 // हे राधे क्षम्यताम् / अपरम् ईदृशम् अपराधं तव कदापि कस्मिन् कालेऽपि न करोमि। अतो हे सुन्दरि राधे / आत्मदर्शनं देहि / कस्य / मम / किमिति / यतोऽहं मन्मथेन कन्दर्पण दुनोमि तापमनुभवामि / वर्णितमित्यादि / वर्णितं जयदेवकेन हरेरिदं प्रवणेन / तिन्दुबिल्वसमुद्रसंभवरोहिणीरमणेन // 8 // 1) B drops this line. 2) B परिवेदनं / 3) A gives this quotation dropping विस्तरः / B drops this line altogether. 4) B नामृत्युभवसि (1) / 5) B किदु (? किन्दु) /