________________ 32] सटिप्पणकम् [सर्गः३ गुर्जरीरागयतिताले // मामियमिति / मामियं चलिता विलोक्य वृतं वधूनिचयेन सापराधतया ययापि न वारितातिभयेन / हरि हरि हतादरतया गता सा कुपितेव ॥१॥ध्रुवपदम् // इयं राधा मां श्रीकृष्णं विलोक्य दृष्ट्वा चलिता निर्गता / किम्भूतम् / वृतं परिवृतम् / केन / वधूनिचयेन / गोपवधूनां निचयः समूहस्तेन / मया न निवारिता अतिभयेन / कया / सापराधतया / सह अपराधेन वर्तत इति सापराधस्तस्य भावः सापराधता तया। सा राधिका कुपितेव क्रुद्धव गता याता। कया। हतादरतया / हतो विनष्टो आदरः सत्कारस्तस्य भावस्तया / हरि हरि शिव शिव खेदेऽर्थे द्वौ शब्दौ भवतः। किं करिष्यतीति / किं करिष्यति किं वदिष्यति सा चिरं विरहेण / कि जनेन धनेन किं मम जीवितेन गृहेण // 2 // सा राधा विरं चिरकालं यो विरहः तेन किं करिष्यति / किञ्च / किं वदिष्यति / अतः मम धनेन किं प्रयोजनम् / सुखेन किं 'प्रयोजनम्। गृहेण जनेन वा किं कार्यम् / चिन्तयामीत्यादि। चिन्तयामि तदाननं कुटिलभ्र कोपभरेण / शोणपद्ममिवोपरि भ्रमताकुलं भ्रमरेण // 3 // तदाननम् / तस्या राधिकायाः आननं मुखं चिन्तयामि / किम्भूतं मुखम् / कुटिलधु / कुटिले वक्र ध्रुवौ यस्मिन् आनने तत् कुटिलधु / केन / कोप10. भरेण / कोपस्य भरः आधिक्यं तेन [ कोपभरेण] / कमिव / शोणपत्नमिव / उपरि भ्रमता भ्रमरेण आकुलं व्याकुलं शोणपञ रक्कोत्पलमिव / ) B गुर्जरीरागण गीयते / ताललक्षणात् परिमठताले तल्लक्षणात् / 2) B मया न निवारिता / 3) B adds कुपिता after निर्गता / 4) B drops from गोप° to समूहस्तेन / 5) B किं किं धनेन अनेन किं मम जीवितेन सुखेन किम् / 6) A मम किं गृहेण सुखेन / 7) B drops प्रयोजनम् / 8) B गृहेण किं जनेन किं काय मम जीवितेन किम् / 9) B रोषभरेण / 10) P. reads रोषभरेण रोषस्य कोपस्य भरः आधिक्यं तेन रोषभरेण; B रोषभरेण / कोपस्य भरः आधिक्यं तेन /