________________ तृतीयः सर्गः। मुग्धमधुसूदनः / कंसारिरपि संसारवासनाबन्धशृङ्खलाम् / राधामाधाय हृदये तत्याज व्रजसुन्दरीः // 1 // श्रीकृष्णाभिप्रायं उत्तरीयगीतार्थ श्लोकाभ्यां प्रकटयति कंसारिरपीत्यादि / कंसारिः श्रीकृष्णोऽपि संसारवासना बन्धशृङ्खलां राधां हृदये आधाय संचिन्त्य ब्रजसुन्दरीः अपरगोपीस्तत्याज जहौ / संसारस्य वासना जगतः स्थितितत्परता विगतरूपा पूर्वजन्मकृतसुकृतसंस्कारातिशयप्राप्तसर्वसुन्दरीजनाधिकसौभाग्यता[ ? सुभगता , / तया "बद्धा विषयासक्तिरूपङ्खला शृङ्खलास्थानं या दृढहेतुस्ताम् / इतस्तत इति। इतस्ततस्तामनुसृत्य राधिकामनङ्गबाणव्रणखिन्नमानसः / कृतानुतापः स कलिन्दनन्दिनीतटान्तकुब्जे "विषसाद माधवः // 2 // स माधवः 1°अनङ्गबाणवणखिन्नमानसः कन्दर्पशराघातावसन्नहृदयः कृतानुतापः / तदेकगतचित्तत्वात् / इतस्ततः तां राधाम् अनुसृत्य परिमृग्य कलिन्दनन्दिनीतटान्तकुञ्ज निषसाद निषण्णोऽभवत् / कलिन्दनन्दिनी यमुना तस्या स्तटं तस्यान्तःपरिसरः तत्र कुञ्ज तस्मिन् / 11कलिं पापं द्यति खण्ड. यतीति कलिन्दः सूर्यः तस्य नन्दिनी पुत्री। अनङ्गस्य कामस्य बाणाः तैः प्रणानि क्षतानि तैर्युक्तं खिन्नं खेदसहितं मानसं यस्य / पुनः किम्भूतः। कृतः 13अनु पश्चात्तापो येन सः। _1) B बद्ध / 2) A, B उत्तरगीतार्थ / 3) B बद्ध / 4) B_drops जहौ / 5) A drops सुकृत / 6) A °सौभाग्या ता तया (1) 7) B बन्धोवि( ? बन्धो वि) षयासक्तिरूपस्तत्र शृङ्खलास्थानीयो / 8) P यादृक् हेतुस्ताम् B दृढसेतुस्ताम् / 9) A, B निषसाद० / 10) B drops अनङ्ग.........मानसः। 11) B drops from कलिं to पुत्री। 12) B अनुतापः /