________________ 30] सटिप्पणकम् [सर्गः२ शयेन स्वेदागण्डस्थल यस्य स तम् / पुनः किम्भूतम् / विलम्बितस्मितसुधामुग्धाननम् / विलम्बिता स्मितसुधा हास्यामृतं तया मुग्धं सुन्दरमाननं यस्य / अथवा विलक्षितश्च स्मितमुग्धाननश्चेति / दुरालोकेति / . दुरालोकस्तोकस्तबकनवकाशोकलतिका विकाशः कासारोपवनयवनोऽपि व्यथयति / अपि भ्राम्यद्धृङ्गीरणितरमणीया न मुकुल प्रसूतिश्चूतानां सखि शिखरिणीयं सुखयति // 3 // हे सखि मां व्यथयति / कः। दुरालोकस्तोकस्तबकनवकाशोकलतिका विकाशः / नवकाश्च ताः अशोकलतिकाश्चेति / स्तोकः अल्पः स्तबकः गुच्छो यस्याः सा तथा। तासां विकाशः / दुःखेन आसमन्तात् अवलोकितुं शक्यते इति दुरालोकः स च स्तोकस्तबकनवकाशोकलतिकाविकाशश्च / न केवलं सः कासारोपवनपवनोऽपि मां व्यथयति / सरसीयुक्तमुपवनम् आरामः तस्य पवनः सोऽपि / किञ्चायमपि न सुखयति / मुकुलप्रसूतिः उत्पत्तिः / केषाम् / चूतानाम् / कथम्भूता / भ्राम्यन्ती भृङ्गी भ्रमरी, रणितेन मनोहराऽपि पुनः / कीदशी / शिखरिणी। शिखरे निवसितुं शीलमस्या इति / छन्दोऽपि शिखरिणी। / इति श्रीगीतगोविन्दटीकायां आश्लेषकेशवो नाम __ द्वितीयः सर्गः। | A पवनोऽयं मां; B पवनोऽयं / 2) P spells ग्लुंछो / 3) A reads कासार: सरसी तेन युक्तमुपवनम् आरामः तस्य पवन(नः)। B drops from सरसी to न सुखयति and has instead किं तर्हि व्यथयति / 4) A reads आक्लेश° /