________________ श्लोकः-२] गीतगोविन्दकाव्यम् [29 श्रीजयदेवेत्यादि / श्रीजयदेवभणितमिदमतिशयमधुरिपुनिधुवनशीलम् / सुखमुत्कण्ठितगोपवधूकथितं वितनोतु सलीलम् // 8 // श्रीजयदेवभणितमिदं वितनोतु विस्तारयतु / किम् / श्रोतृणां सुखम् / इदमिति किम् / अतिशयमधुरिपुनिधुवनशीलम् / 'व्या (व्य )वायो ग्राम्यधर्मः स्यान्मैथुनं निधुवनं रत (?) इत्यमरः। निधुवने शीलं स्वभावः। अतिशयेन मधुरिपोः कृष्णस्य निधुवनशीलम् / किम्भूतम् / सलीलम् सह लीलया वर्तत इति / पुनः किम्भूतम् / उत्कण्ठितगोपवधूकथितम् / 4उत्कण्ठा आसक्तिविशेषः। सा जाता यस्यां सा गोपवधू राधा तया कथितम् / इति राधिका स्वमनोगतमाह हस्तस्रस्तेत्यादि / हस्तस्रस्तविलासवंशमनृजुभ्रूवल्लिमदल्लवी वृन्दोत्सारिदृगन्तवीक्षितमतिस्वेदार्द्रगण्डस्थलम् / मामुद्वीक्ष्य 'विलक्षितं स्मितसुधामुग्धाननं कानने गोविन्दं व्रजसुन्दरीगणवृतं पश्यामि हृष्यामि च // 2 // हे "शुमे कानने वृन्दावने अहं गोविन्दं पश्यामि / न केवलं पश्यामि हृष्यामि च / हृष्टा भवामि / किम्भूतम् / वजसुन्दरीगणवृतम् / बजे सुन्दर्यः तासां गणः कदम्बः तेन वृतः परिवेष्टितः तम् / पुनः किम्भूतम् / मामुद्वीक्ष्य समवेक्ष्य हस्तस्रस्तविलासवंशम् / हस्तात् सस्तोऽधो निपतितो विलासस्य वंशो यस्य स तम् / पुनः किम्भूतम् / अनृजभूर्व[व]ल्लिमबल्लवीवृन्दोत्साहगन्तवीक्षितम् / अनृजः कुटिला चासौ भ्रूवल्लिश्चेति / अनृजु भ्रूवल्लिविद्यते यासां ताः अनृजुभ्रवल्लीमबल्लव्यः गोप्यः तासां वृन्दं निकरः तेन उत्साहात् संभ्रमात् दृगन्तै10नेत्रोपान्तैर्वीक्षितस्तम् / अथवा तस्य वृन्दस्य 11 उत्साहः संभोगेन वीक्षितः (संभोगस्तेन वीक्षितः) 12 अथवा उक्तविविधबल्लवीवृन्दे उत्साहेन दृगन्तवीक्षितं यस्य स तथा तम् / अथवा वृन्दोत्सारि पाठे उत्सारि संसर्पि दृगन्तः 13कटाक्षनिरीक्षितम् / गोपस्त्रीपरिवृतम् अत्र क्रीडति / अति___1) B drops श्रीजयदेवभणितम् / 2) B drops this line from Amara. 3) P drops this प्रतीक 4) / B reads उत्कण्ठा जाता यस्या(स्यां) सा...... 5) B drops this sentence. 6) B वृन्दोत्साह। 7) B विलज्जितस्मित° / 8) A adds राधिके after शुमे / 9)B वजसुन्दरीणां गण(णः) कदम्ब( म्बः ) तेन वृतं परिवेष्टितम्। 10) A नेत्रप्रान्तैः / 11) B उत्साहसंभोगेन / 12) B drops from अथवा to कटाक्षनिरीक्षितम् / 13) A कटाक्षस्तेन वीक्षितम् / क्रीडातिशयेन स्वेदार्द्रगण्डस्थलं बिलम्बं तस्मिन् तयया (? तयो ) तादृशी सुधाहास्यामृतं यया मुग्धं सुन्दरमाननं यस्य / B गोपस्त्रीपरिवेष्टितम् अनुक्रीडति अतिशयेन स्वेदार्द्रगण्डस्थलं यस्य स तम् / पुनः कथंभूतम् / विलम्बितं स्मितसुधामुग्धाननम् / विलम्बिता स्मितसुधा तस्यामृततया मुग्धं सुन्दरमाननं यस्य स तम् /