________________ 26] सटिप्पणकम् [सर्गः 2 मनोरथः कामवाञ्छा तया भावितया / पुनः किम्भूतया / निभृतनिकुञ्जगृहं गतया चेति / 'पुनः किम्भूतं तम् / निशि रहसि एकान्ते निलीय वसन्तम् / गुप्तं गत्वा तिष्ठन्तम् / *पुनः किम्भूतया / चकितविलोकितसकलदिशा / चकितेन युक्तं विलोकितं सकलासु दिक्षु यस्याः सा तथा तया / अथवा चकितं च तत् विलोकितं चेति सकलदिक्षु यस्याः सा तया / अथवा चकितेन विलोकिताः सकलदिशो यया सा तथा / पुनः किम्भूतं कृष्णम् / हसन्तम् / केन रतिरभसरसेन / रतौ रभसः औत्सुक्यं तस्य रसः तेन / पुनः किम्भूतया / मदनमनोरथभावितया / 'मदनान्मनोरथः प्रियसङ्गमस्पृहा तया भावितया व्याप्तया। पुनः किम्भूतम् / सविकारम् / मदनेन जनितो विकारस्तेन सह वर्तत इति सविकारस्तम् / प्रथमेत्यादि प्रथमसमागमलज्जितया पटुचाटुशतैरनुकूलम् / मृदुमधुरस्मितभाषितया शिथिलीकृतजघनदुकूलम् // 2 // पुनः किम्भूतया / प्रथमसमागमलज्जितया / प्रथमः आद्यश्चासौ समागमो "मिलनं तेन लज्जिता तया / कथम्भूतम् / अनुकूलं 1°वशवर्तिनम् / कैः / पटुचाटुशतैः / पटूनि चतुराणि चाटूनि 11प्रियवादीनि [१वचनानि / तेषां शतानि तैः। पुनः किम्भूतया। मृदुमधुरस्मितभाषितया / मृदु कोमलं मधुरं 1 कर्णपेयम् / स्मितेन 18हास्येन युक्तं भाषितं यस्याः सा तथा तया। पुनः किम्भूतं तम् / शिथिलीकृतजघनदुकूलम् / शिथिलीकृतं 14शैथिल्यमापादितं नितम्बभागपरिधान वस्त्रं येन / 15जघनं कटेरधोभागः / हारावलीविशेषणानि अन्तरितानि [?] / किशलयेत्यादि किशलयर्शयननिवेशितया चिरमुरसि ममैव शयानम् / कृतपरिरम्भणचुम्बनया परिरभ्य कृताधरपानम् // 3 // पुनः किम्भूतया किशलयशयननिवेशितया। किशलयैः नवपल्लवैः निर्मितं शयनम् / तत्र / निवेशिता [? अर्पिता अर्थात्तेन] तया / पुनः किम्भूतं 1) A निभृतनिकुञ्जस्य गृहगतया प्राप्तवत्या / 2) P reads तत् / between चेति and पुनः। 3) P, B leave out निशि / 4) B drops from पुनः किंभूतया...to सकलदिशो यया सा तथा / 5) B पुनः सविभूत (?) हसन्तम् / 6) B drops रतौ रभसः औत्सुक्यं तस्य रसः तेन / 7) B मदनमनोरथः / 8) B मदनजनितो विकारस्तेन सह वर्तमानम् / 9) B मेलनं / 10) B drops. वशवर्तिनम् / 11) B प्रियवादानि / 12) B drops कर्णपेयम् / 13) B हासेन। 14) B शिथिल्यमापादितं जघने नितम्बभागे परिधान वस्त्रं येन / 15) B drops from जघनं......to अन्तरितानि; A drops विशेणानि अन्तरतानि 16) P. नलिन० / 17) B निवेशितया; B drops from अर्थात् ......तया /