________________ श्लोकः 5] गीतगोविन्दकाव्यम् [27 तम् / चिरं चिरकालं ममैव उरसि हृदये शयानं सुप्तम् / पुनः किम्भूतया। कृतपरिरम्भणचुम्बनया। कृते परिरम्भणचुम्बने यया सा तया / पुनः किम्भूतम् / कृताधरपानम् / अधरस्य पानम् / कृतम् अधरपानं येन स तथा तम् / किं कृत्वा। परिरभ्य / आलिङ्गय / अलसेत्यादि। अलसनिमीलितलोचनया पुलकावलिललितकपोलम् / श्रमजलसंकलकलेवरया वरमदनमदादतिलोलम् // 4 // पुनः किम्भूतया / अलसनिमीलितलोचनया। अलसं यथा स्यात् तथा निमीलिते लोचने यया सा तथा तया / पुनः किम्भूतम् / पुलकावलिललितकपोलम् / पुलकानां आवलिः पङ्क्तिः तया ललितौ *मनोशौ कपोलौ यस्य तम् / 'वीथ्यालिरावलिः पङ्क्तिः श्रेणी रेखास्तु राजयः' इत्यमरः। पुनः किम्भूतया / श्रमजल सकलकलेवरया / श्रमजलं 'स्वेदः स एव सकलेवरे (? स एव सकले कलेवरे ) सर्वाङ्ग यस्याः सा तथा तया / कथम्भूतं तम् / अतिलोलं चञ्चलं तरलम् / कस्मात् / वरमदनमदात् / मदनेन वरः श्रेष्ठः मदनमदश्चेति / तस्मात् / कोकिलेत्यादि / कोकिलकलरवकूजितया जितमनसिजतन्त्रविचारम् / श्लथकुसुमाकुलकुन्तलया नखलिखितघनस्तनभारम् // 5 // पुनः किम्भूतया / कोकिलकलरवकूजितया। कोकिलस्य कलश्चासौ रवश्चेति मधुरध्वनिः तद्वत् कृजितं यस्याः सा तया / तं कथम्भूतम् / जितमनसिजतन्त्रविचारम् / तन्त्रस्य शास्त्रस्य विवेकशास्त्रस्य विचारः पर्यालोचनम् / जितो दूरीकृतस्तिरस्कृतः मनसिजेन अनंकेगेन ( ? अनङ्गेन ) तन्त्रविचारो यस्य स तम् / अथवा / मनसिजस्य कामस्य तन्त्रं शास्त्रम् / तस्य विचारः स एव जितो येन स तथा तं समधिगतकामशास्त्रम् / पुनः किम्भूतया / प्रलथकुसुमाकुलकुन्तलया। लथानि शिथिलानि च कुसुमानि चेति। तैराकुला व्याकुलाः [ कुन्तलाः ] केशा यस्याः सा तया / 'चिकुरः कुन्तलो वालः कचः केशः 1) A, B °सिक्तकलेवरया। 2) B drops this line. 3) B adds रोमाञ्चानां / 4) B मनोहरौ / 5) B drops this line. 6) B सिक्तकलेवरया। 7) A स्वेदः तेन सिक्तः [सिक्तं ] कलेवरं यस्याः सा तया। मदनेन मनसिजेन मदः वरश्चासौ स च वरमदनमदस्तस्मात् अतिलालं अतिम्चप / B) स्वेदजलं तेन सिक्तं कलेवरं यस्याः सा तथा / 8) A जितो मनसिजेन तत्त्वस्य विवेकस्य विचारः पर्यालोचनं येन स तम् / अथवा / मनसिजः कामः तस्य तन्त्रं शास्त्रम् / B जितो मनसिजेन अनङ्गेन तन्त्रविचारो यस्य स तम् / अथवा / मनसिजस्य कामस्य तन्त्रविचार(तन्त्रविचारः) शास्त्रविचारः स एव जितो येन स तम् / 9) B) drops this line from Amara.