________________ [25 श्लोकः 1] गीतगोविन्दकाव्यम् ___अतिसुन्दरमोहनमधुरिपुरूपम् / अतिसुन्दरं मोहनं च तत् मधुरिपुरूपं चेति / 'मधुदैत्यस्य रिपुः तस्य रूपम् / पुनः किम्भूतम् / श्रीजयदेवेन भणितम् / तत् संप्रति सततमनुकूलं भवति / केषाम् / पुण्यवतां जनानाम् / के प्रति / हरिचरणस्मरणं प्रति / अनन्यमना नु किमिति स्मरति तदाह गणयतीत्यादि / गणयति गुणग्रामं भ्रामं भ्रमादपि नेहते वहति च परीतोषं दोषं विमुञ्चति दूरतः / युवतिषु चलत्तृष्णे कृष्णे विहारिणि मां विना ___ पुनरपि मनो वामं कामं करोति करोमि किम् // 1 // हे सखि ममेदं मनो वाममेव कामं करोति किमहं करोमि / कुतः / यतः कृष्णे कामाभिलाषं करोति / किम्भूते / मां विना विहारिणि क्रीडति / पुनः किम्भूते / चलत्तृष्णे चलन्ती वर्धमाना तृष्णा यस्य स तथा तस्मिन् / कासु / युवतिषु / न केवलं कामं करोति / तस्य कृष्णस्य गुणग्रामं गणयति / किञ्च / कृष्णात् भ्रामं चलनं भ्रमादपि 'भ्रान्तिवशादपि नेहते / न कुरुते / तस्मिन्नेव तिष्ठतीत्यर्थः / तस्मिन् कृष्णे परि(री)तोषं वहति / सदा दोषं च दूरतः प्रविमुञ्चति परित्यजतीत्यर्थः। ___1°मालवराग-एकतालीताले। निभृतेत्यादि / 11निभृतनिकुञ्जगृहं गतया निशि रहसि 19निलीय वसन्तं 18चकितविलोकितसकलदिशा 14रतिरभसरसेन हसन्तम् / सखि हे केशिमथनमुदारं रमय मया सह मदनमनोरथभावितया सविकारम् ॥ध्रुवपदम् // 1 // हे सखि मया सह केशिमथनं 15केशिनं दैत्यं मथितवानिति तं रमय क्रीडय / कथम्भूतम् / उदारं श्रेष्ठं सविकारं यथा स्यात् तथा / कथम्भूतया मया / 16मदन 1) P, B leave out सुन्दर; A drops अति to रूपम् / 2) A मधुनाम्नो दैत्यस्य / 3) A, B श्रीजयदेवभणितं / 4) A तत् हरिचरणयोः स्मरणं प्रति पुण्यक्तां पुंसां संप्रति अनुरूपम् अनन्यमनाः किमिति स्मरति तदाह / B तत्......भवति / तेषां...जनार्ना हरिचरणस्मरणं प्रति अनन्यमनाः किमपि स्मरति तदाह / 5)P भामं, B drops भ्रामं / 6) B drops यतः / 7) B भ्रमतिवशादपि / 8) B drops this sentence. 9) B विमुञ्चति परिमुञ्चति इत्यर्थः / 10) B गौडमालवरागेण गीयते / 11) B निशतः / 12)P निलीलय / 13) B किंतविलोकित। 14) रतिरससरसेन / 15) B drops केशिनं दैत्यं मथितवानिति तं / 16) A मद[न]स्य कामस्य मनोरथेन वाञ्छितेन भावितया; B मदनस्य मनोरथः कामवाञ्छ [ञ्छा) तया भावितया /