________________ 24] सटिप्पणकम् [सर्गः 2 पुनः किम्भूतम् / मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारम् / 'वरमणिमयेन निर्मिते ये मकराकारे मनोहरे कुण्डले / मणिमये च ते मकरमनोहर कुण्डले चेति / ताभ्यां मण्डितौ भूषितौ गण्डौ यस्य स तथा तम् / मणिमयेति पाणिनीयव्याकरणमते प्राचुर्यविकारप्राधान्यादिषु मयट् / तथा उदारं श्रेष्ठम् / पुनः किम्भूतम् / अनुगतमुनिमनुजसुरासुरवरपरिवारम् / मुनयश्च मनुजा मनुष्याश्च सुराश्च असुराश्च मुनिमनुजसुरासुरा अनुगता अनुसारिणश्च ते / ते एव वराः श्रेष्ठाः परिवारा यस्य स तथा तम् / विशदकदम्बेति / विशदकदम्बतले मिलितं कलिकलुषभयं शमयन्तम् / मामपि किमपि कुरङ्गतरङ्गदनगदृशा मनसा रमयन्तम् // 7 // पुनः किम्भूतम् / मिलितम् / कस्मिन् / विशदकदम्बतले / कदम्बस्य तलं कदम्बतलम् / विशदं शुद्धं यत् तत् कदम्बतलं चेति तस्मिन् / पुनः किम्भूतम् / शमयन्तं निवर्तयन्तम् / किम् / कलिकलुषभयम् / कलेः कलुषः (? कलुषं) पापम् / तस्मात् भयं तत् / पुनः किम्भूतम् / मामपि किमपि तरतदनङ्गशा मनसा रमयन्तम् / किमपि तरङ्गं चञ्चलं यथा स्यात्तथा। दर्शनाभावेन कथं रमयति / तदाह / किम्भूतेन / अनङ्गदृशा अनङ्गं पश्यतीति अनङ्गदृक् / कर्तरि क्विप् तेन सकामेनेत्यर्थः / किम्भूतं हरिम् / मामपि एमयन्तम् / यतः तरङ्गं तरङ्गवन्तं चञ्चलमित्यर्थः। पुनः किम्भूतम् / ["किमपि तरङ्गं किमप्यनुकूलं किमप्यलं वस्तु तदपि गच्छतीति किमपि तरङ्गः सर्वव्यापीति ? अतो मनसा रमयतीत्यर्थः / किं वितर्के / वितर्के परिप्रश्ने क्षेपे निन्दाप्रकाशयोरिति विस्तरः। श्रीजयदेवेति / श्रीजयदेवभणितमंतिसुन्दरमोहनमधुरिपुरूपम् / हरिचरणस्मरणं पति संपति पुण्यवतामनुरूपम् // 8 // 1) B प्रचुरमणिमयेन / 2) B drops मणिमयेति.........to मयट् / 3) A and B तरङ्गमनङ्गदृशा; the commentary presupposes the reading तरङ्गम् तरङ्गदनादृशा / 4) P कलिमहानुभूतेन(?)कलुषरवं (? कलुषं) पापम् ; B कलिकलानुभूतेन (8) कलुषं / 5) B drops कर्तरि क्विप् / 6) B drops तरङ्गवन्तं / 7) A किमप्यनुकूलं वस्तु तदपि गछतिरतितरङ्ग(?) सर्वव्यापीत्यतो मनसा रमयतीत्यर्थः / B किमप्यनुकूलवस्तु तदपि गछतीति (1) किमपि तरङ्गः सर्वव्यापी अतो मनसा रमयतीत्यर्थः / 8) A किंचित् (?) वितकें परिप्रश्ने श्लेषे (?) निंदाप्रकाशयो रत्यमरः / This line is not found in the Amarakosa. B drops from किं वितर्के.........to विस्तरः / 9) P मिति /