________________ प्रलोकः 6] गीतगोविन्दकाव्यम् [23 नार्यः तासां मुखानि तेषां चुम्बनं तेन लम्भितः प्रापितो लोभो यस्य स तथा तम् / पुनः किम्भूतम् / बन्धुजीवमधुराधरपल्लवकलितदरस्मितशोभम् / बन्धुजीव- . वत् रक्तपुष्पवद् मधुरः सुन्दरः स चासौ अधरपल्लवश्च तस्मिन् / कलितं स्वीकृतं तच्च तत् दरस्मितं ईषद्धास्यं तेन शोभा सौन्दर्य यस्य तथा तम् / 1उल्लसितस्मितशोभा यस्य स तं तथा। अर्थादधरपल्लव' एव उपमालङ्कारः। विपुलेत्यादि / विपुलपुलकभुजपल्लबवलयितबल्लवयुवतिसहस्रम् / करचरणोरसि मणिगणभूषणकिरणविभिन्नतमिश्र(स्रोम् // 4 // पुनः किंभूतम् / विपुलपुलकभुजपल्लववलयितवप[ °वलयितव]ल्लवयुवति सहस्रम् / वल्लवानां गोपानां युवतयो नार्यः तासां सहस्रम् / विपुलाः बहुलाः पुलकावलयो येषु ते तथा / ते च भुजाश्च तेषां पल्लवाः अग्रभागाः तैर्वलयितं आलिङ्गितं वल्लवयुवतिसहस्रं येन स तथा / पुनः किंभूतम् / करचरणोरसि मणिगणभूषणकिरणविभिन्नतमिश्र(स्र)म् / करौ [च] चरणौ च उरश्च करचरणोरः। समाहारद्वन्द्वेनैकत्वं तस्मिन् / करचरणोरसि मणीनां गणाः समूहाः तैर्युक्तानि भूषणानि तेषां किरणा अंशवः तैर्विभिन्नं दूरीकृतम् तमिश्रं() येन स तथा तम् / अलुप्तसप्तमीसमासः। *प्राण्यङ्गमिति विस्तरः / जलदेत्यादि / जलदपटलवलदिन्दुविनिन्दकचन्दनतिलकललाटम् / पीनपयोधरपरिसरमर्दननिर्दयहृदयकपाटम् // 5 // पुनः किम्भूतम् / जलदपटलवलदिन्दुविनिन्दकचन्दनतिलकललाटम् / जलं ददतीति जलदा मेघाः / तेषां पटलं समूहः तत्र वलत् प्रकटीभवत् योऽसाविन्दुश्चन्द्रः तस्य विनिन्दकस्तिरस्का(र्ता) चन्दनस्य तिलको ललाटे यस्य स तथा / पुनः किम्भूतम् / पीनपयोधरपरिसरमर्दननिर्दयहृदयकपाटम् / पीनाः पीवराश्च ते पयोधराश्चेति तेषां परिसरा निकटप्रदेशाः तेषां मर्दनं निर्दयं दयारहितं हृदयकपाटं यस्य स तथा तम् / मणिमयेत्यादि / मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारम् / पीतवसनमनुगतमुनिमनुजसुरासुरवरपरिवारम् // 6 // 1) A अथवा उल्लसितस्मितस्य शोभा यस्य तं तथा; B. उल्लसितस्य [ स्मितस्य ] शोभा यस्य तं तथा / 2. B 0 पल्लवे उपमा / 3) B drops समाहारद्वन्द्वेनैकत्वं / 4) Bप्राणाङ्गमिति विस्तारः / 5) P. पीनधनस्तनमण्डल /