________________ 22] सटिप्पणकम् [ सर्गः 2 रासे हरिमिह विहितविलासं स्मरति मनो मम कृतपरिहासम् // ध्रुवपदम् // 1 // हे सखि रासे रासक्रीडायां विहितविलासं कृतक्रीडं हरिं इह निकुञ्ज मम मनः स्मरति / किंभूतम् / 1 कृतपरिहासम् / कृतः परिहासो नर्म येन / 3 स तथा तम् / 3 पुनः किंभूतम् / संचरन् अधरसुधया मधुरो ध्वनिर्यस्य सः मुखरितः शब्दं कारितः मोहनः त्रैलोक्यस्य अवैमनस्यकारी मनोहरो वंशो यस्य तम् / वेणुवादनावस्थां दर्शयति / पुनः किम्भूतम् / चलितहगञ्चलचञ्चलमौलिकपोविलोलवतंसम् / चलितौ चञ्चलौ हगन्तौ नेत्रान्तौ यस्य स तथा / चञ्चलो मौलिर्मुकुटो यस्य स तथा / 4 कपोलयोर्विलोले वतंसे कर्णभूषणं(णे) यस्य स तथा। विष्टि भागुरिरल्लोपमवाप्योरुपसगयोः / अकारस्य लोपं केचिदिच्छन्ति / चलितहगञ्चलश्चासौ चञ्चलमौलिश्चासौ कपोलविलोलवतंसश्चेति यस्य स तम्। चन्द्रकेत्यादि / चन्द्रकचारुमयूरशिखण्डकमण्डलवलयितकेशम् / / प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिरसुवेशम् // 2 // पुनः कथम्भूतम् / चन्द्रकचारुमयूरशिखण्डकमण्डलवलयितकेशम् / चन्द्रकाश्च चन्द्राकारास्तश्चारवः सुन्दराः ते च मयूरशिखण्डका मयूरपिच्छानि तेषां मण्डलं निकरः तेन वलयिता वेष्टिताः केशा यस्य स तथा / पुनः किम्भूतम् / प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदित(र?)सुवेशम् / प्रचुरं विस्तीर्णं च तत् पुरन्दरधनुश्च तेनानुरञ्जितो भूषितः स चासौ मेदुरः स्निग्धः मुदिरो नीलमेघश्च तस्येव वेषो यस्य स तथा तम्। 'अयं श्यामः पीतवसनेन शक्रचापयुक्तनीलमेघवत्प्रतीयते। गोपकदम्बेत्यादि। गोपकदम्बनितम्बवतीमुखचुम्बनलम्भितलोभम् / बन्धुजीवमधुराधरपल्लवमुल्लसितस्मितशोभम् // 3 // पुनः किम्भूतम् / गोपकदम्बनितम्बवतीमुखचुम्बनलम्भितलोभम् / लम्बितलोभमिति पाठे एष एवार्थः / गोपानां कदम्बः समुदायः तस्य नितम्बवत्यो 1) B drops कृतपरिहासम् / 2) B drops स तथा तम् / 3) P drops from पुनः ...... to वैमनस्यकारी; B drops from पुनः... to दर्शयति / किंभूतम् / 4) B कपोलयोः विलोलो अवतंसो भूषणो यस्य स तथा / 5) A वष्टि भागुरीत्याकारलोपः / स चासौ स चासौ स च सः / B drops from वष्टि... ... to दिच्छन्ति / 6) P मुदिश्त [?] सुवेशं; the 'प्रतीक, in the commentary, however, * reads मुदितसुवेश; B मुदितसुवेषम् / 7) B drops this sentnc.